________________
[५३७
10
त्रयोदशः सर्गः । भीष्मस्य वैराग्यम् ॥]
तदात्मजानुरोधेन स्थातासि सुचिरं गृहे । परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥२०८॥ पितः प्रीत्यर्थमाकालं कलयन्ब्रह्मचारिताम् । देवव्रत इति ख्याति गृहिधर्मेऽपि लप्स्यसे ॥२०९॥ बंहीयोमहिमा भूत्वा क्रमाद् गोत्रपितामहः । आर्तस्य धार्तराष्ट्रस्य रणेनानृण्यमीयिवान् ॥२१०॥ ममान्तेवासिनो भद्रगुप्ताचार्यस्य सन्निधौ । अथ श्रद्धालुरुद्धृत्य भावशल्यानि सर्वतः ॥२११॥ तां दशां द्रव्यशल्योत्थां सहमानोऽतिदुःसहाम् । वर्षमात्रावशेषायुः प्रयतः प्रव्रजिष्यसि ॥२१२॥ त्रिभिर्विशेषकम् । विधायाऽऽराधनां सम्यक्साम्यनिर्मग्नमानसः । उपगन्तासि वर्षान्ते सुखी स्वर्लोकमच्युतम् ॥२१३॥ इत्याख्याय यथाख्यातचरित्रोऽन्यत्र सोऽगमत् । अहमप्यन्वभूवं तत्प्रतिपादितमादितः ॥२१४॥ ततोऽमी खेचरा वत्स ! धर्मसब्रह्मचारिणः । दक्षाः सवयसो दीक्षासमयं स्मारयन्ति मे ॥२१५॥ एक्मावेदयन्नेव पार्थीयैः परिपूरितः । प्रतिरोमशरस्तोमै रोमाञ्चनिचयैरिव ॥२१६॥ कराद् गलितकोदण्ड: सम्मीलितविलोचनः । निष्पपात रथक्रोडे मूर्छालस्तालकेतनः ॥२१७॥ युग्मम् । अवस्थादौस्थ्यमेतस्य मन्ये वीक्षितुमक्षमः । विमुक्तवसुसर्वस्वः प्रापद् द्वीपान्तरं रविः ॥२१८॥ तमस्तोमनिरस्ताशौ नक्षत्रोदयशालिनौ । कौरव्यश्च प्रदोषश्च द्वावप्यभवतां तदा ॥२१९॥
अवहारस्ततस्तात ! तातेति परिदेविभिः । . शोकान्धकारविधुरैश्चक्रे कौरवपाण्डवैः ॥२२०॥
१. महामहिमा । २. विनाशिनः । ३. पृथापुत्रसंबन्धिभिः ।