________________
5
10
15
20
25
५३६ ]
[ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य पृच्छा ॥
अथ दुर्योधनोऽभ्येत्य भीष्मं पप्रच्छ विस्मितः । कामेते खेचरास्तात ! स्मरयन्ति गुरोर्गिरम् ? ॥ १९४॥
अथ गाङ्गायनिः प्राह मातामहगृहे वसन् । चारण श्रमणान्बाल्ये मात्रा सममनंसिषम् ॥ १९५॥ विशुद्धं साधुधर्मं च श्राद्धधर्मं च मे पुरः । व्याकुर्वन् कुरुराजेन्द्र ! मुनीन्द्रास्ते कृपालवः ॥ १९६॥ धर्मस्योपनिषत्तेभ्यो बंभूव हृदयङ्गमा । तथा मम यथाकामं कामोऽभून्नार्थकामयोः ॥१९७॥
ततः प्रभृति पश्यामि भूतसङ्घातमात्मवत् । वाचं वाचंयम इव ब्रुवे सत्यपवित्रिताम् ॥१९८॥ परवित्तेषु मे चित्तं सर्वथाऽभूत्पराङ्मुखम् । अजिह्मब्रह्ममनसः सर्वं स्त्रैणं तृणं मम ॥ १९९ ॥ अकार्षं प्रियसन्तोषः परिग्रहविनिग्रहम् । किं नाम दुष्करं जैनधर्मवासितचेतसाम् ॥२००॥ इत्थंकारमनाचारविमुखो धर्मसम्मुखः । व्यरंसिषमशेषेभ्योऽप्याश्रवेभ्यः श्रुतैकधीः ॥२०१॥ अर्हत्पूजा गुरूपास्ति तपःस्वाध्यायसंयमैः । दानेन च त्रुटत्कर्मा षट्कर्माऽस्म्यहमन्वहम् ॥ २०२॥ सर्वसङ्गपरित्यागमङ्गीकर्तुमना अपि ।
कलाः पवनवेगेन मातुलेनास्मि शिक्षितः ॥ २०३॥ एकदा तु त्रिकालज्ञं मुनिचन्द्राभिधं मुनिम् । मातामहेन सहितो गतवानस्मि वन्दितुम् ॥२०४॥ आसाद्यावसरं सद्यः कलयन्पुलकाङ्कुरान् 1 सर्वप्रत्यक्षमप्राक्षं तं गुरुं रचिताञ्जलिः ॥ २०५ ॥ मुनीन्द्र ! परमानन्दमूलकन्द ! कदा मम । मोहान्धकारसविता भविता सर्वसंयमः ? ॥ २०६ ॥ सोऽप्याख्यद्भद्भ ! या माता नवचन्द्रोज्ज्वला गुणैः । सती सत्यवती नाम भविष्यति यवीयसी ॥२०७॥