SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । युद्धे आकाशवाणी ॥] [५३५ कथञ्चिदमुमादृत्य निदेशं मञ्जुकेशिनः । शिखण्डिरथमारोहत्ततः प्लवगकेतनः ॥१८१॥ शिखण्डिवपुषा गुप्तमूर्तिनाऽथ किरीटिना । इष्वासश्चकृषे कर्णप्रान्तविश्रान्तमुष्टिना ॥१८२॥ अनिमेषा अपि दृशः समुन्मेषयतां भृशम् । बभूव रभसोत्तालो देवानां तुमुलस्तदा ॥१८३॥ मार्तण्डमण्डलं पूर्व वार्षिका इव वारिदाः । ' तिरयन्तोऽन्तरा भीष्मरथं दुर्योधनादयः ॥१८४।। वातूलैरिव दिङ्मूलकेलिकारपराक्रमैः । भीमप्रभृतिभिः सद्यो निन्यिरे विशरारुताम् ॥१८५॥ युग्मम् । पताकापल्लवैर्वायुवेल्लितैः सव्यसाचिनम् । नोदयन्निव नाराचमुक्तयेऽभात्तदा रथः ॥१८६॥ सहैव त्रपया भक्त्या स्नेहेन च पितामहे । गाण्डीवधन्वना काण्डमण्डली मुमुचे ततः ॥१८७॥ शिखण्डिरचितान्तर्धिमपश्यन् कपिकेतनम् । गाङ्गेयो दक्षिणेर्माङ्गस्तदासूतमवोचत ॥१८८॥ कामं मर्माविधो वर्मच्छेदकर्मणि कर्मठाः । वेगादच्छिन्नसन्तानपातिनः सरलक्रियाः ॥१८९॥ अलक्ष्यगतयो लक्ष्यभेदमेदुरितौजसः । कुर्वन्तो विद्युदुद्दयोतलेखां पुखैर्हिरण्मयैः ॥१९०॥ सुरा इव सुपर्वाणः सत्फलाः शुभकर्मवत् । अवश्यमर्जुनस्यैते विशिखा न शिखण्डिनः ॥१९१॥ त्रिभिर्विशेषकम् । वत्सस्यास्य धनुर्विद्यामद्यानुभवतः स्वयम् । जीवतीवान्तरात्माऽयं मृत्युकोटिगतोऽपि मे ॥१९२॥ अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती । मा स्म विस्मर गाङ्गेय ! गिरं गुरुसमीरिताम् ॥१९३॥ १. विशीर्णताम् । 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy