________________
10
५३४]
[पाण्डवचरित्रमहाकाव्यम् । भीष्म-शिखण्डिनयोयुद्धम् ॥ अनीकप्रत्यनीकानां कामं विमुखतां गते । भीष्मस्य समरेऽतिष्ठदव्यापार: करश्चिरम् ॥१६८॥ राकेन्दुमण्डलं भानुबिम्बस्येवाम्बरे ततः । शिखण्डिस्यन्दनो भीष्मरथस्याभूत्पुरो रणे ॥१६९॥ शिखण्डिनमनूद्दण्डं धावन्तो धन्विनः परे । वृकोदरकिरीटिभ्यां नाराचैः प्रतिचक्रिरे ॥१७०।। पुरोऽवलोक्य कोदण्डचण्डपाणिं शिखण्डिनम् । बभूव रणसंरम्भमन्दो मन्दाकिनीसुतः ॥१७१॥ कोटिशो भटसम्भारसंहारविहितश्रमम् । . धनुर्विश्रमयाञ्चक्रे कृपयेव पितामहः ॥१७२॥ हैमन्तिक इवादित्यो मन्त्रस्तब्ध इवानलः । जरीव हरिणारातिर्गाङ्गेयो ददृशे तदा ॥१७३॥ ततः शिखण्डिना काण्डै ीष्मः स्वैरमताड्यत । गजो गम्भीरवेदीव न किञ्चित्तु विवेद सः ॥१७४॥ एतस्मिन्नन्तरे हृष्टा धृष्टद्युम्नादयोऽपि तम् । सर्वे सर्वाभिसारेण शरासारैरताडयन् ॥१७५॥ प्रहारदारुणानेतान्वीक्ष्य गङ्गासुतस्ततः । कोपकम्प्राधरश्चापे रोपमारोपयत्पुनः ॥१७६।। तच्चक्ररक्षिणौ दुर्योधनदुःशासनावपि । समं ववृषतुर्वेगाद्वाणैः प्राणैकभिक्षुभिः ॥१७७॥ न दिशो विदिशो नापि नाकाशं न च काश्यपी । आलोकि केवलं लोकैः शराद्वैतमयं जगत् ॥१७८।। ससंभ्रममथाजल्पत् कपिकेतुं वृषाकपिः । कथं वृथा पृथासूनो ! सैन्यक्षयमुपेक्षसे ? ॥१७९॥ शिखण्डिना तिरोधानान्मानयित्वा त्रपामपि । तत्कुरु श्रीलतामूलं भीष्ममुन्मूलय स्वयम् ॥१८०॥
15.
25
१. प्रहारान् दारु० प्रतिद्वय । २. बाणम् ।