SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ [५३३ त्रयोदशः सर्गः । युद्धे शिखण्डिनः प्रयाणम् ॥] बभौ भीमकिरीटिभ्यां गताभ्यां चक्ररक्षिताम् । शिखण्डी चण्डरश्मीन्दुमध्ये बुध इव स्थितः ॥१५५॥ मिथः सायकसम्पातखाट्कारमुखराम्बरम् । आत्यन्तिकमभूद्युद्धमुभयोरप्यनीकयोः ॥१५६॥ द्विपानामपनीतास्यावरणानामपि क्षणात् । पांसवः स्यन्दनोद्भूता मुखप्रच्छदतां ययुः ॥१५७॥ अन्योऽन्यरदनाघातजातैः कार्शानिवैः कणैः । अयुध्यन्तान्तरं तेजो वमन्त इव दन्तिनः ॥१५८॥ दन्तिनो दन्तदम्भोलिसङ्घट्टघटितैर्मिथः । प्लुष्येते स्म शिखिज्वालाकलापैरास्यकङ्कटौ ॥१५९॥ केनापि करिणोत्क्षिप्ते रथाग्रे पृथिवीं ययौ । रथी ससारथी रथ्या योक्त्रबद्धाललम्बिरे ॥१६०॥ कुन्तैरूर्द्धमुदस्ताङ्गाः सादिभिः प्रतिसादिनः । वंशाग्रगतशैलूषकेलिमाकलयन्मुहुः ॥१६१॥ न वर्मिणैर्न रथ्याभि श्वीयैर्न च हास्तिकैः । रेवापूर इव क्वापि कोऽपि सादी न चस्खले ॥१६२॥ एकैव विविदे मुष्टिः कर्णजाहविगाहिनी । भटैः पतद्भिः केषाञ्चिदिषुमोक्षस्तु लक्षशः ॥१६३॥ कस्यापि रथिनः क्रोधाद्धावतोऽनुविरोधिनम् । आसीद्दुरुत्तरारक्तनिमग्नैवान्तरार्गला ॥१६४॥ काञ्चिज्जर्जरयन्काञ्चित्समरादपसारयन् । काश्चित् पिंषन्निषुव्रातैर्युध्यते स्म पितामहः ॥१६५॥ न तस्य भेजिरे वैरिश्रेणयः सम्मुखीनताम् । तरूणामापराह्निक्यश्छाया इव विवस्वतः ॥१६६॥ केचिद्विषंतपैर्भीष्मसायकैराकुलीकृताः । क्षिपन्ति स्म परासूनां दन्तिनामन्तरे रथान् ॥१६७॥ १. अग्निसंबन्धिभिः । २. कवचः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy