________________
५३०]
[पाण्डवचरित्रमहाकाव्यम् । भीष्मस्योत्तरम् ॥ हतवत्यपि गाङ्गेये महीपालान्सहस्रशः । हताभ्यधिकभूपालाः सानन्दाः पाण्डुनन्दनाः ॥११५॥ कौरवाः पुनरुद्वेलवैमनस्यमहार्णवाः । अवहारे कृते जग्मुः स्कन्धावारं निजं निजम् ॥११६॥ युग्मम् । धार्तराष्ट्रस्ततो रात्रौ गाङ्गायनिमुपागमत् । प्रणिपत्योपविश्याग्रे सोपालम्भमदोऽवदत् ॥११७॥ तात ! स्पष्टमवष्टम्भात्तव कार्मुककर्मणाम् । सर्वः पार्थविघातार्थमारम्भोऽयं ममाभवत् ॥११८॥ को नाम हिममुच्छेत्तुं सूरोऽपि सुरभिं विना ? । कीदृशः काननं दग्धुमग्निरप्यनिलादृते ? ॥११९॥ त्वं तु कौन्तेयदाक्षिण्यात्सङ्गरे तद्धनुधरैः । नित्यमास्माकवर्गीणान्हन्यमानानुपेक्षसे ॥१२०॥ तेभ्योऽस्मदहितेभ्यश्चेद् दातुं राज्यं तवेप्सितम् । तद्व्यापादय मां तात ! सद्यः स्वेनैव पाणिना ॥१२१॥ इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् । वत्स ! तुच्छोचितः कोऽयमुद्गारोऽद्य गिरां तव ॥१२२॥ ज्ञातेयान्मे यदप्येतच्चेतस्तेष्वपि वत्सलम् । तथापि त्वयि विक्रीतं जीवितव्यमिदं मया ॥१२३॥ त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् । योद्धव्यमनुरोधं च विमुच्य सह पाण्डवैः ॥१२४॥ परं कपिध्वजो यत्र करे धारयते धनुः । जयः सांशयिकस्तस्मिन्नवश्यं समराङ्गणे ॥१२५॥ तथाप्याजन्मतोऽभ्यस्तनिस्तुषैश्चापकर्मभिः । तात ! प्रातः करिष्यामि निःशौण्डीरां वसुन्धराम् ॥१२६।। एवमुन्मीलितप्रीतिर्जाह्नवीतनुजन्मना । जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥१२७॥
15
.
१. वसन्तम् । २. ज्ञातिसंबन्धात् । ३. अनुसरणम् ।