SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 10 त्रयोदशः सर्गः । भीष्मस्य पराक्रमः ॥] [५२९ एवमाश्वासिता धर्मसूनुना साऽमुचच्छुचम् । उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥१०२॥ तथैव विशिखवातैर्नृपानीकान्यनेकशः । भीष्मो निघ्नन् घृणानिघ्नः सप्ताहान्यत्यवाहयत् ॥१०३॥ उदारधीः सदाराय धृतराष्ट्राय संजयः । नित्यमावेदयाञ्चक्रे निशि साङ्ग्रामिकी: कथाः ॥१०४॥ धर्मात्मजोऽधिवात्सल्यान्निजानां दक्षिणेर्मणाम् । निर्ममे स्वोर्मिकावाभिः प्रत्यहं व्रणरोहणम् ॥१०५॥ अष्टमेऽपि तथैवाह्नि युध्यमाने पितामहे । भृशमारेभिरे योद्धं पाण्डवानीकभूभुजः ॥१०६।। निषङ्गे योऽगमत्पाणिस्तत्रैव तमकीलयन् । यश्चक्रे शरसंधानं चिच्छिदुस्तस्य चाङ्गलीः ॥१०७॥ ज्यां करो योऽकृषत्तं तु समं कर्णेन विव्यधुः । चक्षुरैक्षत यल्लक्ष्यमाकर्षस्तस्य तारकाम् ॥१०८॥ स्थैर्यगर्वं च मूर्छाया मनागपि न सेहिरे । किं पुन—महे छेदे कार्मुकस्य गुणस्य च ॥१०९॥ एवं कुरुवरूथिन्या धानुर्दण्डिकमण्डलीम् । कुर्वते स्म निरुच्छासां कौन्तेयबलधन्विनः ॥११०॥ चतुर्भिः कलापकम् । दोभृतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः । शल्याकुलशरीरस्य श्वाविधो दधिरे तुलाम् ॥१११॥ मज्जत्तलिननाराचमण्डलव्याप्तमौलयः । बभुर्युद्धरसोत्तब्धकुन्तला इव केचन ॥११२॥ बाणव्रणितसर्वाङ्गं कुरूणां तद्बलं बभौ । उद्बुद्धमिव बन्धूकवनं जङ्गमतां गतम् ॥११३॥ तदानीं धन्विनां स्वैरमुच्छलद्भिः शरोत्करैः । क्षुण्णः प्रेक्षकवन् मन्ये वासरोऽप्यन्तमासदत् ॥११४॥ १. निर्दयः । २. धनुर्दण्डैक प्रतौ० । ३. श्वावित् भाषायां 'शाहुडी' । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy