________________
10
५२८]
[पाण्डवचरित्रमहाकाव्यम् । युद्धे उत्तरस्य वधः ॥ सितच्छत्रैः कुमुद्वत्यो वेतस्वत्यश्च केतुभिः । प्रावर्तन्त ततः कूलंकषाः शोणितसिन्धवः ॥८९॥ युग्मम् । उच्छृङ्खलं चतन्तीनामसृग्जलधियोषिताम् । प्रहारपतिता मार्गे शैलायन्ते स्म दन्तिनः ॥९०॥ केतुदण्डमयी क्वापि चापदण्डमयी क्वचित् । तोत्रदण्डमयी क्वापि छत्रदण्डमयी क्वचित् ॥९१॥ तुरङ्गाङ्गमयी क्वापि क्वचिद् द्विपवपुर्मयी । वीरवर्णमयी क्वापि रणक्षितिरवैक्षत ॥९२॥ युग्मम् । प्रहारपाटवात्कामं नभोऽङ्कनभिधावितैः । रक्तैः सक्तैरिवाताम्रो भास्वानस्तमुपाययौ ॥१३॥ त्यजन्ननायुधं षण्ढं योषितं पूर्वपोषितम् । वित्रस्तं कातरं दीनं पराञ्चमभयार्थिनम् ॥१४॥ व्योमान्तव्यापिभिस्तैस्तैः शरासारैररुंतुदैः । भीष्मः परःशतान्भूपानादिनान्तादपातयत् ॥९५॥ युग्मम् । ततः स कृपया चापशिञ्जिनीमवरोपयन् । सैन्यद्वयेऽपि तत्कालमवहारमकारयत् ॥९६॥ अथोत्तरवधात्खेदमेदुराः पाण्डुसूनवः । धार्तराष्ट्रास्तु सानन्दाः स्वं स्वं शिबिरमन्वगुः ॥९७॥ विराटदयितां रात्रौ पुत्रशोकार्तिविक्लवाम् । सुदेष्णां निर्यदुष्णाश्रृं धर्मभूरित्यसान्त्वयत् ॥९८॥ कल्याणि ! वीरकान्ताऽसि शुचा कस्तव संस्तवः ? । ननु वत्सेन तेनाद्य वीरसूरसि निर्मिता ॥१९॥ तस्य पापीयसो मद्रभूभर्तुरुदरादहम् । पृषत्कैश्चेन्न कर्षामि तवाङ्गरुहमुत्तरम् ॥१००॥ तदाऽयं समरारम्भो मा स्म भून्मे फलेग्रहिः । कदाचिदपि मन्येथा मा च मां सत्यसङ्गरम् ॥१०१॥ युग्मम् ।
१. चाचमानानाम् (चलन्तीनाम् प्र०) । २. तोत्रं-वंशयष्टिः । ३. मृतप्रायम् । ४. युद्धस्थानादन्यस्थाने नयनम् । ५. बाणैः ।
15
20
25