SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५२६ ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डव- कौरवयोर्युद्धम् ॥ धावन्तः सिन्धुराः कामं प्रतिस्तम्बेरमान्प्रति । उत्पातपवनोत्क्षिप्ताः शैला इव चकासिरे ॥६३॥ वाजिनोऽप्याजिधौरेया नवधोरितबन्धुराः । मनांसीवाश्ववाराणामश्वरूपेण रेजिरे ॥६४॥ रथानां पङ्क्तयः केतुदुकूलैरनिलाकुलैः । चेरुराह्वयमानानामिव प्रतिचमूरथान् ॥६५॥ ऊर्ध्वजमूर्द्धजाः शौर्यात्कोपारुणितचक्षुषः । वल्गन्ति स्म मुहुः कालकिङ्करा इव पत्तयः ॥ ६६॥ बले द्रौपदिरेकस्मिन्नन्यस्मिञ्जाह्नवीसुतः । सुरान्कुमारवद्योधान् योधयामास वैरिभिः ॥६७॥ ततः शौर्यप्रवालानि वीरव्रतनवाङ्कुराः । उत्साहकन्दलोद्भेदाः क्षत्रधर्माग्रसूचयः ||६८|| उत्तरश्चाभिमन्युश्च पाञ्चालाश्च रणाङ्गणम् । मुहुर्जगाहिरेऽन्येऽपि कुमारा नवबाहवः ॥ ६९ ॥ युग्मम् । पराञ्चश्चक्रिरे वीरशौण्डीरास्तञ्छिलीमुखैः । श्वापदा इव शार्दूलवायुभिर्नासिकंधमैः ॥७०॥ मद्रराजस्य शल्यस्य वैराटेरुत्तरस्य च । जज्ञेऽथ समरो घोरः स्यन्दनस्थगजस्थयोः ॥७१॥ श्रुतिनिर्भेदिनिर्ह्रादानभिद्योतयतो दिवम् । अशनीनिव जीमूतौ तौ महेषूनमुञ्चताम् ॥७२॥ अम्बरेऽप्यमरस्त्रीणां कुतूहलितयोर्हशोः । मानसस्य च भीतस्य तदाऽभूत्कलहो महान् ॥७३॥ उत्तरेणातिदुर्वारं शरासारं वितन्वता । तिरश्चक्रे क्षणं शल्यस्तोयदेनेव भानुमान् ॥७४॥ जितानेकाहवः शल्यो ह्रादिन्येव गिरिं हरिः । वैराटिं नवसंस्फोटसक्तं शक्त्या न्यपातयत् ॥७५॥ १. धोरितं - गतिविशेषोऽश्वस्य । २. 'ऊद्धूतमूर्द्धजाः' इति युक्तं प्रतिभाति । ३. विद्युतः । ४. वज्रेण ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy