________________
[५२५
त्रयोदशः सर्गः । युद्धारम्भः ॥]
पुञ्जयन्त इवाऽऽशान्तान् संवृण्वन्त इवाम्बरम् । चेरु सीरवीरासृग्मात्रभोजनिकाः शराः ॥५०॥ पतिणां पत्रनिर्बादैः शिञ्जिनीनां च शिञ्जितैः । क्ष्वेडाभिर्दो तां चाभूत्सम्भ्रमक्षुभितं जगत् ॥५१॥ निशातविशिखव्याजाद्भूयस्यो रसना इव । समं सर्वान्भटानत्तुं प्रेतभर्तुर्जजृम्भिरे ॥५२॥ अन्योन्यास्फालनोद्भूतस्फुलिङ्गैर्मार्गणा अपि । कोपादस्त्रमिवाग्नेयमातेनुरितरेतरम् ॥५३॥ खेचरैः खेचराः खड्गपाणिभिः खड्गपाणयः । सादिभिः सादिनश्चाधोरणैराधोरणा अपि ॥५४॥ रथारूढै रथारूढा अप्युच्चैः समगंसत । द्वन्द्वयुद्धमिति स्वैरं शौण्डीराणामवर्तत ॥५५॥ युग्मम् । मा स्म रश्मीषवोऽस्यापि पतन्योधेष्विति ध्रुवम् । रेणवोऽतिरयन्भानुं रथप्रधिभिरुत्थिताः ॥५६॥ बंहीयसि तदा पांशौ रणोत्सवमिवेक्षितुम् । ललम्बेऽम्बरमभ्यर्णीबभूवुः ककुभोऽखिलाः ॥५७॥ शराशरिपरित्रासादिव व्योम्नि पलायिताः । विद्याधरविमानान्तराविशन् रणरेणवः ॥५८॥ निर्माय नूतनां सिद्धकामुका इव यामिनीम् । पांसवो दिक्पुरंध्रीणामाकृषन्नम्बराञ्चलम् ॥५९॥ घनानौपम्यबन्धून्नः पङ्कयन्तितमाममी । इतीव शमयामासुः पांसून्मदजलैर्गजाः ॥६०॥ कर्णतालच्छलात्तालवृन्तैरिव मतङ्गजाः । रजः पराजयाञ्चक्रुः सम्परायन्तरायकृत् ॥६१॥ दन्तिनामनिलोद्भूता रेजुः सिन्दूररेणवः । अन्तःकोपहुताशस्य ज्वाला बहिरिवोत्थिताः ॥६२॥
. १. दिगन्तान् । २. प्रत्यञ्चानाम् । ३. "घन्नान्नः पश्यतां बन्धून्," घनानौ पश्य बन्धून्नः इति प्रतिद्वयपाठौ, मूल पाठश्च प्रतिद्वयेऽस्ति ।