________________
५२४]
[पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य भीष्मादिषु भक्तिः ॥ तन्नादेन तदाचान्त इवास्तमिव लम्भितः । प्राप्तवानिव विश्रान्ति रणतूर्यरवोऽभवत् ॥३७॥ अथोत्तीर्य रथात्पझ्यामुपेत्य तपसः सुतः । भीष्मं कृपं च द्रोणं च कल्याणीभक्तिरानमत् ॥३८॥ ततो वैजयिकीं तां तामुच्चार्य मुहराशिषम् । तेऽतिप्रह्वमभाषन्त तं लज्जाजिमिताननाः ॥३९॥ वत्स ! त्वयि न वात्सल्यमस्माकं परिहीयते । तथैव भवतोऽद्यापि भक्तिरप्यधिभूयसी ॥४०॥
परं किं कुर्महे वीर ! कौरवैर्भूरिभक्तिभिः । 10 गृहीताः स्मस्तथा नैतान्यथा हातुं सहामहे ॥४१॥
अस्माभिर्जनताहास्यैर्धनेन निधनप्रदः । कृतः सुकृतहृद् दैन्यनिकायः कायविक्रयः ॥४२॥ युधि युष्माकमेवायं जयस्तु नहि संशयः । यन्नासीरे महावीरौ न्यायधर्मी विसर्पतः ॥४३॥ साक्षाद्विजयमूर्ति तामादाय गुरुभारतीम् । आगत्य पुनरारोहत्स्वं रथं स महारथः ॥४४॥ समीके मनसा साकं विपक्षे सह चक्षुषा । इषूनैष्वासिकाश्चण्डान् कोदण्डेष्वथ संदधुः ॥४५॥ दिक्कूलंकषनिर्घोषनिर्भराशेषरोदसः ।। ततश्चकृषुरिष्वासानुभयेऽपि धनुर्भृतः ॥४६॥ नवविस्फूर्तिदो:कीर्तिपटहोऽथ किरीटिनः । निपीतेतरविस्फारः स्फारितश्रुतिवैशसः ॥४७॥ उल्ललास प्रतिस्वानैः कामं तुमुलयन् दिशः । गाण्डीवकर्षणक्वाणः प्राणप्रावासिको द्विषाम् ॥४८॥ युग्मम् । व्योम्नि व्योमचरस्त्रैणैर्वीक्षितश्चकितेक्षणम् । जृम्भते स्म ततो वीरदो:प्रियंकरणो रणः ॥४९॥
15
25
१. हन्तुं प्र० । २. मरणप्रद । ३. दैन्यनिवासः । ४. युद्धे ।