________________
[५२३
त्रयोदशः सर्गः । कृष्णार्जुनयोः संलापः ॥]
अथोज्जगार कंसारिननु वीरावतंस ! ते । कृपानवाङ्करः कोऽयं क्षत्रधर्मविलक्षणः ? ॥२४॥ गुरौ पितरि पुत्रे वा बान्धवे वा धृतायुधे । वीतशङ्ख प्रहर्तव्यमिति हि क्षत्रियव्रतम् ॥२५॥ बान्धवा बान्धवास्तावद्यावत्परिभवन्ति न । पराभवकृतस्तूच्चैः शीर्षच्छेद्या भुजावताम् ॥२६॥ वैश्वानरः करस्पर्शं मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥२७॥ दायादा अपि हन्तव्या वहन्तो वैरिगृह्यताम् । तमोगृह्यान्निगृह्णाति ग्रहान् किं न ग्रहाग्रणीः ॥२८॥ भ्रातर्विश्वैकधानुष्के सत्यपि त्वयि बान्धवे । यत्कृर्षन्ति द्विषो लक्ष्मी साऽपि ते महती त्रपा ॥२९॥ तत्कृपां शिथिलीकृत्य चापमादाय पाणिना । आधिपत्यं भुवो भूयः स्वभ्रातुर्दातुमर्हसि ॥३०॥ किं चामीषामुपेतोऽयमन्तः स्वैरेव कर्मभिः । त्वं तु केवलमेतस्मिन्हेतुमानं भविष्यसि ॥३१॥ अवश्यमव्यलीकस्य वधः पापाय जायते । धनुष्मन्तो जिघांसन्ति जिघांसन्तं पुनः परम् ॥३२॥ तद् गृहाण करे बाणान् चापमारोपय द्रुतम् । घानिष्यन्तेऽरिभिः पश्य पश्यतस्तव बान्धवाः ॥३३॥ इत्यादिष्टामुपश्रुत्य विष्टरश्रवसो गिरम् । समुत्तस्थौ शनैः पार्थः कार्मुकं कलयन् करे ॥३४॥ उभयोरपि कौन्तेयकौरवानीकयोस्ततः । धनूंषि धन्विनो घोरनिर्घोषाण्यध्यरोपयन् ॥३५॥ उत्तरङ्गयशोराशिक्षीरनीरनिधिध्वनीन् । ते विडम्बयतो दध्मुर्जलजांश्च निजान्निजान् ॥३६॥
१. शत्रुपक्षम् । २. अनपराधिनः । ३. शङ्खान् ।