SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२२] 10 [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां बान्धवोपरि दया ॥ अश्वत्थामायमस्थानं वैरिवारभुवां भियाम् । द्रोणसूनुः कियाहाश्वः सिंहलाङ्लकेतनः ॥११॥ शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । सीताकेतुर्द्विषत्केतुरश्वैर्बन्धूकबन्धुरैः ॥१२॥ विद्विषद्वारदुर्वाररथः सोऽयं जयद्रथः । लोहिताश्वो हृतारातिचेतनः कोलकेतनः ॥१३॥ असौ भूरिश्रवाः श्रव्यकीर्तिकोलाहलः पुरः । पञ्चभद्रहरिः कामानुरूपो यूपकेतनः ॥१४॥ भगदत्तोऽयमात्तारिकीर्तिरारोहकाग्रणीः । सुप्रतीकगजारूढः प्रौढस्तम्बेरमध्वजः ॥१५॥ एतेऽन्येऽपि सुशर्माद्या भूभुजो भुजभूषणाः । तैस्तैः केतुभिरश्वैश्च निरीक्ष्यन्तेऽभिलक्षिताः ॥१६॥ एतावन्तो जयद्वीपं यास्यतो धर्मजन्मनः । अन्तरम्भोधयः सन्ति पोतस्तु धनुरेव ते ॥१७॥ इमामम्भोजनाभस्य निशम्य विमलां गिरम् । न्यषीददुज्झितेष्वासो रथक्रोडे कपिध्वजः ॥१८॥ निजगाद च गोविन्दं गुरुसम्बन्धिबान्धवान् । हन्तुमुत्सहते नैतान्मनागपि मनो मम ॥१९॥ तत्कि राज्यं ? श्रियस्ताः काः ? किं च तत्पौरुषं मम ? । बीजानि यानि दायादगुरुबन्धुवधैनसाम् ॥२०॥ मत्तनूवीरुधोऽमुष्याः शश्वदावालतामगात् । यस्याङ्कः किं शरास्तस्मिन् पतेयुर्मे पितामहे ? ॥२१॥ अश्वत्थाम्नोऽपि नाऽऽम्नायं तथा चापस्य यो ददौ । वात्सल्यान्मे यथाऽदत्तं तं गुरुं हन्मि किं रणे ॥२२॥ बान्धवा बान्धवा एव बाढमप्यपकारिणः ।। एतेष्वपि मदिष्वासः संदधत् त्रपते शरान् ॥२३॥ - १. रक्तवर्णाश्वः । २. हलध्वजः । ३. मुखादिषु पञ्चसु स्थानेषु भ्रमरचिह्नवान् पञ्चभद्रः । ४. 'विमना' प्रत्यन्तरे । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy