________________
त्रयोदशः सर्गः । कृष्णेन कृतं कौरवसैन्यवर्णनम् ॥ ]
त्रयोदशः सर्गः ॥
अथैवं समयश्चक्रे सैनिकैरुभयैरपि । नावहारे प्रहर्तव्यं नापशस्त्रे न च स्त्रियाम् ॥१॥ ततः प्रौढरथारूढौ वृकोदरकिरीटिना । धृष्टद्युम्नस्य सेनान्यश्चक्रतुश्चक्ररक्षिताम् ॥२॥ अथ प्रतिपताकिन्या भटानेकैकशः पुरः । सूतं पप्रच्छ पक्षीन्द्रकेतनं कपिकेतनः ॥३॥ ततः प्रत्येकमालोक्य प्रतिपन्थिवरूथिनीम् । अभ्यधान्माधवो वाजिकेतुकीर्तनपूर्वकम् ॥४॥ एष तालध्वजः कालः साक्षादिव रणक्षितौ । `सेराहतुरगो गङ्गासूनुः सर्वंकषो द्विषाम् ॥५॥ द्रोणः सोऽयमविद्राणकीर्तिः कलशकेतनः । शोणसप्तिः समित्सर्वधुरीणधनुरूर्जितः ॥६॥ इतश्चायं कृपाचार्यो ध्वजीकृतकमण्डलुः । धनुर्विद्यालताकन्दश्चन्दनाभतुरङ्गमः ॥७॥ सैष दुर्योधनो धन्वी नीलाश्वो नागकेतनः । भुञ्जानस्य भुवं यस्य शल्यन्ति त्वद्भुजाः परम् ॥८॥ दुःशासनोऽयमानायकेतुः पीततुरङ्गमः । स्थितं यद्भयतो लीनैर्दानैर्मानैरिवारिभिः ॥९॥ वोल्लाहैश्च हयैः सोऽयं सौबलो गवलध्वजः । भुवनेऽप्युत्तमर्णत्वमस्यैव क्रूरिमश्रियाम् ॥१०॥
[ ५२१
१. युद्धभूमेरन्यत्र शिबिरस्थाने । २. पीयूषवर्णाश्वः । ३. रक्ताश्वः ४. वोल्लाहः पाण्डुकेशरबालधिरश्वविशेषः । ५. महिषध्वज ।
5
10
15
20