________________
५२०]
[पाण्डवचरित्रमहाकाव्यम् । युद्ध-प्रारंभः ॥ द्वयेऽपि भर्तुरादेशात्कथञ्चिद्वेत्रपाणिभिः । ध्रियन्ते स्म धनुष्मन्तः प्रथमप्रधनेच्छवः ॥५०२॥ पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनैर्नानारत्नमयैर्विमाननिवहै: सन्ध्याम्बुदालीमयम् । कुर्वद्भिः कुरु-पाण्डवेयसमव्यालोकनव्याकुलैर्गान्धर्वामरखेचरैवियदलङ्चक्रे तदानीं क्षणात् ॥५०३।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकागमनप्रयाणवर्णनो नाम द्वादशमः सर्गः ॥१२॥
१. प्रधनं-युद्धम् ।