SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [३९ प्रथमः सर्गः । पाण्डोः कामार्तता ॥]. भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे । विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥४६८॥ अथादिष्टो विशां पत्या प्रातराकार्य कोरकः । पाण्डवे पाण्डुरोगित्वान्न दातास्मि निजां सुताम् ॥४६९।। कोरकेण नरेन्द्रोक्तं पुरुषाय न्यवेद्यत । तेनापि भीष्मपाण्डुभ्यां हस्तिनापुरमीयुषा ॥४७०॥ एकान्ते तं नरं नीत्वा पाण्डुः पप्रच्छ सादरम् ।। ब्रूहि राजसुता भद्र किं तु मय्यनुरज्यते ? ॥४७१।। सोऽशंसदेव ! तां वेद्मि रागिणीमिङ्गितैस्त्वयि । यदा त्वां वर्णयामास कोरकः क्षितिपाग्रतः ॥४७२।। भृशं रोमाञ्चितौ तस्याः कपोलफलकौ तदा । निमेषविमुखे जाते नेत्रे स्फारितपक्ष्मणी ॥४७३॥ सा श्रोत्रपुटमाधत्त निषिद्धविषयान्तरम् । सवेपथु वपुर्यष्टिमुवाह च मुहुर्मुहुः ॥४७४॥ मन्मथेनाथ पृथ्वीशः पञ्चभिर्युगपच्छरैः । प्रहतः प्राप तं तापं येन नाप रतिः क्वचित् ॥४७५।। क्षणं तस्थौ नपः सौधे धारायन्त्रगृहे क्षणम् । क्षणं पल्लवपल्ल्यङ्के कौसुमस्रस्तरे क्षणम् ॥४७६।। जलााचन्दनं चन्द्रकर्पूराण्यपि भूपतेः । विलुम्पन्ति स्म संतापं न स्मरज्वरसम्भवम् ॥४७७।। अविन्दन्नरविन्दानामपि तल्पे रतिं क्वचित् । ययावुपवने पाण्डुः पुष्पाडम्बरबन्धुरे ॥४७८॥ कुन्तीविरहदाहार्तिप्रतीकारचिकीर्षया । तत्र प्रतिद्रु विश्राम्यन्सोऽद्राक्षीत्खदिद्रुमम् ॥४७९॥ तस्य स्तम्बे निरालम्बं कीलैः कीलितमायसैः । एकं नरं निरुच्छासं दुःखितं स समैक्षत ॥४८०॥ १. 'फुवारो' इति भाषायाम् । २. कुसुमैःकृतायां शय्याम् । ३. आर्द्रव्यजनम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy