________________
५१६]
[पाण्डवचरित्रमहाकाव्यम् । कौरवसैन्यसज्जता ॥ विमानैरनुकामीनैः खेचराणां मणीमयैः । चकाशे दूरमाकाशे कुर्वद्भिः कमलाकरम् ॥४५१॥ निवासेषु पदव्यां च रणक्षोणौ च सा चमूः । साकल्येनैव सर्वत्र महावृष्टिरिवाबभौ ॥४५२॥ अथोपेत्य समिद्भमौ पाण्डवेयस्य शासनात् । आरचय्य महद्व्यूहं भूनेतारोऽवतस्थिरे ॥४५३॥ यदैव च तपःसूनोरनीकं समनह्यत । तदैव कौरवस्यापि शङ्खः सांनाहिकोऽध्वनत् ॥४५४॥ किं नामास्मिन् रणारम्भे भवितेति धिया समम् । अथ प्रजागराञ्चक्रुर्भूभुजो भुजशालिनः ॥४५५॥ वल्लभादोलताश्लेषसुखनिर्मग्नचेतसः । केचित्तल्पं चिरादौज्झश्रुतशङ्खस्वना अपि ॥४५६॥ तदानीं विदितात्यन्तविप्रयोगागमा इव । स्वच्छन्दं दयितां केचिदालिलिङ्गः पुनः पुनः ॥४५७॥ उत्सुकोऽसि खलु स्वर्गे स्त्रीभोगेष्विति भाषिणी । प्रेयसी कञ्चिदुत्थास्नुमाश्लिष्य रुरुधे चिरम् ॥४५८॥ ताभिस्ताभिः कृतोत्साहै राजदौवारिकोक्तिभिः । संवर्मयितुमारेभे ततो विश्वम्भराधवैः ॥४५९॥ नवोढदयिताऽऽस्येन्दौ केचित् स्तिमितदृष्टयः । उदस्तवर्मणोऽप्यग्रे नापश्यन्ननुजीविनः ॥४६०॥ किं भविष्यत्यसौ जाते मम दैवादमङ्गले । शोचन्निति प्रियां कश्चिन्न संवर्मणमस्मरत् ॥४६१॥ कञ्चिदव्यक्तजल्पाकबाललालनलालसः । देशनाऽऽनयनादेशमप्यदान्न निदेशिनाम् ॥४६२॥ श्रीशुद्धान्तगजाश्वादिचिन्तयाऽऽचान्तचेतसः । आरोप्यमाणमप्यङ्गे न वर्म विविदुः परे ॥४६३।।
25
१. मार्गे । २. निर्मितदृष्ट्यः प्रत्य० । ३. दंशनं कवचम् ।