SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ प द्वादशः सर्गः । कौरव सैन्य सज्जता ॥] [५१७ राजानो रेजिरे नद्धहाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्रज्वालाजालजटालिताः ॥४६४॥ कश्चित्संहननोत्तालबलकोलाहलाकुलः । आलानद्रुममुन्मूल्य जगाहे शिबिरं करी ॥४६५॥ सेनाकलकलोद्धान्तचेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषाञ्चिन्मदस्रोतांसि तत्क्षणात् ॥४६६।। कथञ्चिद्ग्राहयाञ्चक्रे श्रुतसाङ्ग्रामिकानकः । उन्मीलितकटः सद्यः कंङ्कटः कोऽपि कुञ्जरः ॥४६७।। आदाय सिन्धुरः सादिमात्तैकगुडपक्षकः । कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ॥४६८॥ आजये सज्जिताः कामं रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्रशाखान्ता इव शाखिनः ॥४६९॥ विनीता अपि तत्कालं कलिताविनयक्रमाः । ग्राह्यन्ते स्म बलात्केचित्खलीनमपि वाजिनः ॥४७०॥ कल्पयन्तं तथा पद्भ्यां सादिनं कोऽप्यहन्हयः । यथा सोऽभूदलम्भूष्णुः सांयुगीने न कर्मणि ॥४७१॥ संसूत्रिततनुत्राणास्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः परीताः पद्मिनीदलैः ॥४७२॥ सम्प्रत्यमङ्गलं बाष्पनिपातो मास्म भूदिति । ऊर्ध्वपक्ष्मपुटप्रान्तं वितन्वत्याः पदक्रमम् ॥४७३॥ करिष्यति प्रिये सिद्धिसरकं स्खलनात्पदः । पपात पाणेः कस्याश्चिद्बलात्कनकभाजनम् ॥४७४॥ युग्मम् । कस्यापि कुर्वतो वीरकवलं गृहकुक्कुरः । कृतं करे करम्भस्य भ्रंशयामास भाजनम् ॥४७५॥ दूर्वादिमङ्गलेषिण्याश्चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित्पत्यौ सङ्ग्रामगामिनि ॥४७६॥ १. गजानाम् । २. कट:-गण्डस्थलम् । ३. कवचम् । ४. गुड:-आस्तरणम्, स एव सहायो येन । ५. मद्यपात्रम् । ६. वीरं-करम्भः तस्य कवलम् । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy