________________
[५१३
द्वादशः सर्गः । पाण्डवसैन्यसज्जता ॥]
श्रोत्रेणान्तःप्रविष्टैस्तन्नादैरुद्वेलिता इव । निर्ययुः पुलकव्याजान्महीशानां बहिर्मुदः ॥४१२॥ रणराभसिकाः पत्तिस्यन्दनाश्वेभसज्जने ।। राजानोऽधिकृतानुच्चस्तरभाजोऽप्यतत्वरन् ॥४१३॥ मदाम्बुपङ्किलीभूताः क्वणत्कनकशृङ्खलाः । काश्यपीशयनादुच्चैरुदस्थाप्यन्त दन्तिनः ॥४१४॥ सादिभिर्दुतमभ्येत्य रणत्काञ्चनभूषणाः । सर्वतोऽप्युदमोच्यन्त वल्लितोऽश्वमतल्लिकाः ॥४१५॥ मा स्म कातरता काचिद्वन्धुलोकस्य भूदिति । दृढशौण्डीर्यवर्माणोऽप्युर्वीशाः समवर्मयन् ॥४१६॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुढेिषाम् । युक्तमेव भटस्याङ्ग ममौ वर्मणि यत्नतः ॥४१७॥ सहिष्यतेऽरिनाराचान् किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ॥४१८॥ अनालोक्य मुखं संयत्याह्वास्यन्ते द्विषो न नः । इति केचिच्छिरस्त्राणं नात्मनः शिरसि न्यधुः ॥४१९॥ क्षणमात्रान्महामात्रैरिभाः संवर्मिता बभुः । सानुमन्तो नितम्बान्तलम्बमानाम्बुदा इव ॥४२०॥ वाधिकल्लोलतत्कालनिर्यदुच्चैःश्रवःश्रियम् । बिभ्रत्यः प्रक्षरोपेता रेजिरे वाजिराजयः ॥४२१।। रथैर्वरूथिभिर्दिव्यैर्युक्तवाह्लीकवाजिभिः । कामं रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ॥४२२॥ अरिष्टाय द्विषां धर्मजन्मापि सह बान्धवैः । दंशिताङ्गो दुरीक्ष्योऽभूत्परिवेषीव भानुमान् ॥४२३॥ पञ्चापि पाण्डवा रेजुभृतनानायुधास्तदा । कल्पान्त इव पाथोदाः स्फुरितानल्पविद्युतः ॥४२४॥
१. यन्न तत्, प्रत्य० । २. तोमरम्-आयुधम् । ३. कवचवद्भिः । ४. रथम् । ५. कवचिताङ्ग।