________________
द्वादशः सर्गः । पाण्डवसैन्यसज्जता ॥]
[५११ नानावर्णास्तदैवान्तःक्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां नेत्रपट्टा विनिर्ययुः ॥३८६।। रणारम्भोत्सवे वीरकवलाय भटावलेः । करम्भाः करकाभासो निरपाद्यन्त दाधिकाः ॥३८७॥ द्रक्ष्यामो भटकण्ठस्था युद्धोत्सवमिति ध्रुवम् ।। विकाससुभगाभोगाः सृज्यन्ते स्म नवाः स्रजः ॥३८८॥ घृष्यते स्म प्रवीराणामङ्गरागाय चन्दनम् ।। पिष्यन्ते स्म ललामेभ्यो भूयस्यो मृगनाभयः ॥३८९।। बलिपुष्पोपहारादिवस्तुभिर्भटवेश्मसु । पुरस्तादस्त्रदेवीनां प्रावर्तन्त महोत्सवाः ॥३९०॥ उपयाचितलक्षाणि देवतानां पृथक्पृथक् । प्रतिशुश्रुविरे वीरदारैर्भर्तृजयैषिभिः ॥३९१।। तत्पूर्वसङ्गमप्रेमकल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि स्वैरमालिलिङ्गर्भटाङ्गनाः ॥३९२॥ वीरसूतिरहं वीरस्नुषा च जगति श्रुता । अखण्डं वीरपत्नीत्वमिदानीं तु मम क्रियाः ॥३९३॥ भीताश्च सप्रमोदाश्च त्वय्येव रणरङ्गिणि । विश्राम्यन्तु दृशः कामं वैरिणां च प्रभोश्च ते ॥३९४॥ निजकौक्षेयकक्षुण्णकुम्भिकुम्भस्थलोद्भवैः । विदध्यामौक्तिकैर्मां च स्वामिकीर्तिं च हारिणीम् ॥३९५॥ कुर्वीथास्त्वं तथा नाथ ! यथा त्वां पश्यतो रणे । भटीजनस्य सर्वस्य स्पृशामि स्पृहणीयताम् ॥३९६।। निर्जित्यारीनुपेतस्य प्रथयिष्यामि नाथ ! ते । निबिडालिङ्गनैरेव प्रहारव्रणशोधनम् ॥३९७॥ इत्यालिङ्ग्य रहः काश्चिदुच्चरत्पुलकाङ्कराः । उपस्थितरणान्प्रातः प्राणनाथान् बभाषिरे ॥३९८॥ षड्भिः कुलकम् । १. दधिविकाराः । २. भूषणेभ्यः । ३. उपशुश्रुविरे० इति प्र० । ४. कौक्षेयक:-खड्गः ।
25