SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ [५०७ द्वादशः सर्गः । दुर्योधनस्य कथनम् ॥] कर्णादीनां प्रवीराणां शल्यादीनां महीभृताम् । जाह्नवीतनयादीनां स्कन्धावारगरीयसाम् ॥३३४॥ समभूवन् यथास्थानं स्वस्वकेतनशालिनः । आवासा हास्तिकाश्वीयरथ्यापादातशोभिनः ॥३३५॥ रेजे दुर्योधनावासोऽप्युज्ज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥३३६॥ हास्तिकाश्वमयी रथ्यामयी पौंस्नमयी तथा । आसीद् द्वयैरनीकैस्तैः कुरुक्षेत्रोपकण्ठभूः ॥३३७॥ अथ सायंतनाऽऽस्थानमास्थितो मगधेश्वरः । आददे गिरमध्यक्षं सर्वक्षोणीभृतामपि ॥३३८।। मम चक्रस्य गोपालं कवलीकुर्वतो रणे । उपदंशपदे नूनं ते भविष्यन्ति पाण्डवाः ॥३३९॥ राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ॥३४०॥ यस्तु तादृग्विधो नैव स कथं राजशब्दभाक् ? । लभतां च कथंकारं गणनां पुरुषेष्वपि ? ॥३४१॥ तद्विधाय ध्रुवं प्रातर्महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य राज्यं द्वैराज्यशून्यताम् ॥३४२॥ अथोच्चैः कुड्मलीकृत्य करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र ! भारती मामिकामिमाम् ॥३४३॥ त्वयि शौण्डीर्यमाणिक्ये संगराङ्गणसङ्गिनि । आस्तामन्यः स्फुटं सोऽपि वराकः पाकशासनः ॥३४४॥ शत्रुमात्रेषु ते स्वैरं तेऽप्यलम्भूष्णविक्रमाः । ये तावकीनमाहात्म्यदेवतापात्रतां ययुः ॥३४५॥ तदस्य यशसः पाण्डुसूनुसंहारजन्मनः । वीरोत्तंस ! न मे गन्तुं त्वमर्हस्यंशहारिताम् ॥३४६॥ १. रथानां समूहो रथ्या । २. राजद्वयाभावताम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy