SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५०८] 5 10 [पाण्डवचरित्रमहाकाव्यम् । कौरव-भीष्मयोर्विचार: ॥ तमप्येतैः समं युद्धे हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन विशेषयशसे तव ॥३४७।। तद्यावद्देव कौन्तेय-कौरवीयोऽयमाहवः । सभ्य एव भवेस्तावन्मयि भूयादनुग्रहः ॥३४८॥ ओमिति प्रतिपेदाने तां गिरं मगधेश्वरे । स्वावासान्सपरीवारो जगाम धृतराष्ट्रभूः ॥३४९॥ सङ्गमय्य तदैवायं निजानीकमहीयसः । गाङ्गेय-द्रोण-कर्णादीन्सुभटानित्यभाषत ॥३५०॥ समागच्छदगाधोऽयं प्रातः सङ्गरसागरः ।। उत्तरीतुमिमं युष्मद्दोर्दण्डा एव सेतवः ॥३५१॥ अनीषत्करमप्युच्चैः कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साहधारिणः सहकारिणः ॥३५२॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मनाति मन्मथः ? ॥३५३॥ भवद्दोविक्रमैः कामं विजेष्येऽहं विरोधिनः । पक्षराजोऽपि यत्पक्षैस्तरत्यम्बरसागरम् ॥३५४॥ वैरिखड्गाम्बुदुवारैर्योष्माकीर्णैर्भुजोष्मभिः । मदीया सततोल्लासमल्लिका कीर्तिमल्लिका ॥३५५॥ जरासंधोऽधुनाभ्यर्णं प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां वधश्रद्धालुना मया ॥३५६॥ तदनुग्रहमाधाय निवेदयितुमहर्थ । स्वरूपं मे समग्राणामात्मानीकधनुष्मताम् ॥३५७॥ कियन्तोऽतिरथाः सम्यक् कियन्तश्च महारथाः । कति चार्धरथाः सैन्ये सेनान्यं च करोमि कि(क)म् ॥३५८॥ अथाभाषत भीष्मस्तं राजन् किमिदमुच्यते । स्वयं वेत्स्येव यत्सत्यं रहस्यं सर्वधन्विनाम् ॥३५९॥ 15 १. समीपस्थम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy