________________
द्वादशः सर्गः । जरासंधस्य अशुभ- शुकनानि ॥ ]
एतैर्दुष्टैः स्फुटं रिष्टैः सङ्गरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः प्रत्यावृत्तिर्न जायते ॥३०८॥ परं द्वैमातुरो राजा सोऽयमौद्धत्यमन्दिरम् । अप्यायत्येकपथ्यानामाप्तवाचामगोचरः ॥ ३०९॥ गान्धारेयस्तु धौरेय एव दुर्मेघसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ॥३१०॥ एकस्तावज्जरासंधो दुर्धीर्दुर्योधनोऽपरः । सैष ग्रीष्मर्तुसन्तापकालकूटसमागमः ॥३११॥ दावपावकवत्सर्वं निर्दह्य कुलकाननम् । नूनमेतौ दुरात्मानौ निर्नाम क्षयमेष्यतः ॥३१२॥ अथासौ कौरवानीकैरैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो जरासंधबलोदधिः || ३१३॥ प्रागभ्यासा इवात्मानमुदवाहा इवार्णवे ।
भूभुजः कटकं तस्य विशन्ति स्म सहस्रशः ॥ ३१४|| तद्बलाक्रान्तभूभारोद्धारसाहायकार्थिना ।
फणिनोऽन्ये फणीन्द्रेण प्रार्थयाञ्चक्रिरे ध्रुवम् ॥३१५॥ तत्तुरङ्गखुराघातैर्विव्यथे पृथिवी तथा । रजोव्याजेन संजज्ञे यथा गगनगामिनी ॥ ३१६॥ तदा सत्यापयामास स्वां महाबलतां मरुत् । अभूद्वीरावतंसस्य यदस्य प्रातिलोमिकः ॥ ३१७॥ गच्छन्तं मृत्यवे मित्र ! त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य शिवाः कामं ववाशिरे ॥३१८॥ अनीयुषीणां तत्सैन्यशोषिताशेषपाथसाम् ।
वार्धिः शङ्केऽद्य कान्तानां बिभर्ति विरहव्यथाम् ॥३१९॥
किमेते भूभृतो हन्त पृथक्कटकशालिनः । इति क्रोधादिवानीकैराचक्राम स भूधरान् ॥३२०॥
१. जरासंधः । २. नदीनाम् इति भावार्थ: ।
[५०५
5
10
15
20
25