________________
5
10
151
20
25
५०४]
[ पाण्डवचरित्रमहाकाव्यम् । कौरव - जरासंध सेन्ययोरागमनम् ॥ खण्डयन्पाण्डवान् नैनं भुजो नः शोषयिष्यति । मेरुमुज्झति किं शैलान्मज्जयन्प्रलयार्णवः ॥ २९५॥ वारितोऽपि ततस्तैस्तैर्दुर्निमित्तैः क्षुतादिभिः । आदिदेश जरासंधः प्रस्थानाय वरूथिनीम् ॥२९६॥ भरं वोढुमसम्भाव्यंमन्ये सैन्यस्य तावतः । देव ! तन्नगरोत्सङ्गे चकम्पे काश्यपी मुहुः ॥२९७॥ प्रभोर्भावि विभाव्येव विपदर्णवमज्जनम् । दिशः श्याममुखाः कामं जज्ञिरे मलिनाम्बराः ॥२९८॥ सैन्यरेणुभिरश्रान्तं वारयिष्यामहेतमाम् ।
भियेवेति दिवो भानि झम्पामुल्काच्छलाद्ददुः ॥ २९९ ॥ प्रसर्पत्त्वत्प्रतापाग्निज्वालाजालैरिवाभितः । अदृश्यन्त दिशां दाहाः पुरे तस्य दिवानिशम् ॥३००॥ प्रस्थास्नोस्त्वदरिव्रातं संहर्तुं समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के दिवि केतुर्व्यजृम्भत ॥३०१॥ प्रस्थितोऽमीभिरुत्पातैर्नैत्यसाविति शङ्कया । निर्घाताः परितः क्षोणिवक्षोघाता इवाभवन् ॥३०२|| क्रोधावेशादनादृत्य दुर्निमित्तान्यमून्यपि । प्रयाणं कुरुभिः सार्धं विदधे मगधेश्वरः ||३०३ || हरिरित्यभिधायास्ते देव ! त्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य कुञ्जरग्रामणीर्मदम् ॥३०४॥ तस्य प्रस्थास्यमानस्य वाहिनीवाजिकुञ्जरम् । पुरीषप्रस्रवौ चक्रे त्वत्प्रचक्रभयादिव ॥३०५॥ ज्ञाततद्विपदो राज्यलक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चैरस्फुटज्जयदुन्दुभिः ॥३०६॥ भीष्णद्रोणकृपादीनां कुरुसैन्यमहीयसाम् । तदाऽऽसन् जातखेदानां परस्परमिमा गिरः ॥३०७॥
१. यमस्य ।