________________
5
10
15
20
25
५०२]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य शेखरकेण कथितः ॥ देव ! दूतो जरासन्धभूभुजः सोमकाभिधः । द्वारकातस्तदा वेगादगाद्राजगृहं पुरम् ॥२६९॥ भवद्भिर्विहितात्यन्तधर्षणः सोऽत्यमर्षणः । तत्र व्यज्ञापयत्क्रोधभास्वरं मगधेश्वरम् ॥२७०॥ देव ! द्वारवतीं गत्वा समुद्रविजयं नृपम् । देवादेशेन गोपालबालकौ तावयाचिषम् ॥२७१॥ वर्षीयानप्यवर्षीयोबुद्धिरुद्धकन्धरः । प्रभो ! ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ २७२ ॥ ब्रूते च स्वामिनस्तेऽहमीहकः किङ्करोऽथवा । यदाक्रम्य कुमारौ मे दुर्मतिर्याचते बलात् ॥ २७३॥ अहीश्वरशिरोरत्नं नूनमादातुमीहते । नरकेसरिणोऽप्येष द्रंष्टामाक्रष्टुमिच्छति ॥२७४॥ तौ तु गोपालकौ देव ! नवतारुण्यपीवरौ । अहङ्काराविवोत्साहाविवामर्षाविवाङ्गिनौ ॥ २७५ ॥ ज्यायानेकोऽपि तत्रोद्यद्दोर्विलासः पिपासति । कुम्भोद्भव इवाम्भोधीन्सर्वान्युधि विरोधिनः ॥२७६।। कनीयांस्तु भुजस्तम्भन्यस्तनिस्तुलधामभिः । चरित्रैश्चित्रिताशेषलोकैर्लोकोत्तरः परः ॥२७७|| असौ शक्ति तृणायापि शतमन्योर्न मन्यते । मानुषीमलकीटानां पार्थिवानां तु का कथा ? ॥२७८॥ कश्चित्क्वचिज्जरासन्धोऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ २७९॥ निहत्य तं तथा कंसमुत्तंसं वीरसंहतेः । सोऽभवद्दूरमुल्लण्ठः कण्ठीरव इव द्विपम् ॥२८०॥ तदूष्मकलितोष्माणोऽभूवन्नन्येऽपि यादवाः । किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ? ॥२८१॥
१. अतिवृद्धः । २. हमाह क: ० प्रतौ० । ३. 'नरः' इत्युचितं प्रतिभाति० ननु प्रतौ० । ४. सूर्यकान्ताः ।