SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५०० ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवसैन्यावासः ॥ करीश्वरकराक्रान्तं दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं विक्रमो हि फलेग्रहिः ॥२४३॥ मार्ग श्रमच्छिदे स्मेरदब्जिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि गाहन्ते स्म चमूचराः ॥ २४४॥ सुभ्रुवां नाभयः पायं पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रिदरीकार्यमपूरयन् ॥२४५॥ तापोच्छित्तिकृते केऽपि सरिद्वारि जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ २४६॥ केचिदुच्छृङ्गलप्रेमरथाङ्गमिथुनं मिथः । वीक्षमाणाश्चिरं तस्थुः श्रमं विस्मृत्य सैकते ॥२४७॥ मरालीं काचिदालोक्य प्रेयसश्चाटुकारिणीम् । स्त्रीत्वं सासूयमेतस्या निन्दति स्म मुहुर्मुहुः ॥२४८॥ इतो भृङ्गाङ्गनागीतैः सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र तस्थुर्व्यग्रं मृगीदृशः ॥ २४९ ॥ काश्चिदच्छपयःपानैर्मृणालवलयैः पराः । कर्णोत्तंसोत्पलैरन्या धिनोति स्म वधूर्धुनी ॥ २५०॥ काश्चित्तात्कालिकस्नानकमनीयतमश्रियः । वानीरवेश्मसु प्रेयःप्रार्थनामकृतार्थयन् ॥२५१॥ प्रियाचञ्क्रमणे हंसीप्रयाते चाधिसैकतम् । वेत्तुं नाभूदलं कश्चिदुपमानोपमेयताम् ॥ २५२॥ फलैः पुष्पैरपि ब्रह्मतनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं पाण्डवं चोपतस्थिरे ॥२५३॥ खर्जूरनागरङ्गाम्रजम्बूजम्बीरमण्डिते । सप्तलामालतीमल्लीचम्पकाशोकशालिनि ॥ २५४॥ दत्तोन्मादपिकीनादे हारिहारितनिक्वणे । कलकादम्बनिह्रादे पुष्यत्पुष्पं धयध्वनौ ॥२५५॥ १. काश्चिदु० प्रत्य० । २. प्रियाया गमने । ३. पुष्पंधयः- भ्रमरः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy