SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ [४९९ 10 द्वादशः सर्गः । कृष्णपाण्डवसैन्यावासः ॥] . श्रेणीबद्धैस्तुरङ्गेन्द्रैर्लोलवालधिशालिभिः । वीजयद्भिरिवाराजिचामरैः स्वप्रभुश्रियम् ॥२३०॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथैस्तारग्रैवेयकस्वनैः । राशीकृताः पुरोवाहै: स्वादयाञ्चक्रिरे यवाः ॥२३१॥ वैरिविक्रान्तिसन्तापं सप्ताङ्ग्या: स्वाङ्गसम्पदः । समुच्छेत्तमिवातुच्छं क्षरन्तः सप्तधा मदम् ॥२३२॥ निवासान्परितः पाण्डुतनूज-वनमालिनोः । इभाः शाड्वलसान्द्रेषु द्रुमेष्वालानिता बभुः ॥२३३।। युग्मम् । आलानपादपः पुष्पैरङ्गवल्गनपातिभिः ।। व्यभादिभेश्वरे हर्षात्पुष्पवर्षं किरन्निव ॥२३४॥ आनीय कुम्भयोः कर्णतालयोर्लोलयन्मुहुः । प्रस्फोटयन्कटे दन्तकोशान्तः स्थापयन्क्षणम् ॥२३५॥ तैस्तैर्हस्तिपकोद्गीर्णैर्नोदनावचनक्रमैः । मन्दादर: करीन्द्रः स्म तृणुते तृणपूलकम् ॥२३६॥ युग्मम् । अनीहैरिव नागेन्द्रैविधापिण्डोऽप्युपाददे । अमेयमहिमानो हि नि:स्पृहा एव सर्वतः ॥२३७॥ स्मातपीताः ककुद्मन्तः पर्यटन्तः सरित्तटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः ॥२३८॥ महीयः शुशुभे शुभैः कूलिनीकूलशाड्वलम् । चरद्भिः शाङ्करस्तोमैयॊमेव शतचन्द्रितम् ॥२३९॥ अन्यापि वाहिनी नामेत्यसूयाकलुषैरिव । जातं कल्लोलिनीकूलमुद्रुजैर्वाहिनीवृषैः ॥२४०॥ रिरंसुमनसामेकां गामनुद्रवतां जवात् ।। नाभून्नेत्रोत्सवः कस्य महोक्षाणां रणः क्षणम् ॥२४१॥ करीरादितरुस्तोमकमनीयमनीयत । पीताम्भाः करभश्रेणिविशालं जङ्गमस्थलम् ॥२४२॥ 15 20 25 १. वालधिः-पुच्छम् । २. स्वामीसम्पदः प्र० । ३. [तृणूयी अदने हैमधातु १५०४] खादति । ४. अनीहयैव प्रत्य० । ५. हस्तिभक्ष्यान्नपिण्डः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy