________________
[४९७
द्वादशः सर्गः । युद्धे गजादीनां सज्जता ॥]
द्रौहिणीलहरिव्यूहविहारशिशिरीकृतैः । पीयमानश्रमस्वेदवारयो मातरिश्वभिः ॥२०६॥ द्रुमच्छायासु निद्राणा विसंस्थुलितवाससः । ईश्वराणामपि स्वैरं जनरैक्ष्यन्त योषितः ॥२०७॥ युग्मम् । पीतैरत्यन्तमश्रान्तं रोममार्गविनिर्गतैः । यशःक्षीरैरिवारीणां फेनवारिभिरङ्किताः ॥२०८॥ कौमुदीविशदे ब्रह्मनन्दिनीपुलिनोदरे । वेल्लयाञ्चक्रिरे वाहाः स्वैरं वल्लभपालकैः ॥२०९॥ युग्मम् । 'विरेजुः कुञ्जराः काममुत्तीर्णकुथकेतनाः । समूलोन्मूलिताशेषपादपा इव पर्वताः ॥२१०॥ रुष्यन्नासन्नचारिभ्यः सादिभ्यो विस्मृतश्रमः । महामात्रेण मत्तेभः कथञ्चित्प्रत्यषिध्यत ॥२११॥ काममध्वक्लमोत्तप्तं नवमुक्ताफलोज्ज्वलैः । सिञ्चति स्म वपुः कश्चित्करेणुः करशीकरैः ॥२१२॥ निन्यिरे दूरमुद्भिन्नकटान्ताः कटकाद्गजाः । कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् ॥२१३॥ उपबाह्या न बाह्यत्वं प्रभिन्ना अपि लेभिरे । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥२१४॥ चलन्प्रत्यन्यमातङ्ग कोपतोऽवमताङ्कशः । सिन्धुरेन्द्रो धुनोति स्म निषिध्यन्तं निषादिनम् ॥२१५॥ .. हसन्त इव हेषाभिर्हरिदश्वहरीन्हयाः ।। नदीवारिविहारार्थमवतेरुः सरस्वतीम् ॥२१६।। विस्मृत्य पयसः पानमनारोहादखेदवान् । सहेषमनुदुद्राव द्रुतमश्वां हयेश्वरः ॥२१७॥
१. द्रौहिणी [द्रुहिणः ब्रह्मणा (अभि० २११) तस्य अपत्यं स्त्री]सरस्वती । २. वायुभिः । ३. ब्रह्मनन्दिनी-सरस्वती । ४. 'प्रत्यरुध्यत' प्रति-पाठः । ५. राजवाहकहस्तिनो मत्ता अपि बाह्यत्वं न लेभिरे इत्यर्थः । ६. अभि प्रतिपाठः । ७. सूर्याश्वान् ।