________________
[४९५
द्वादशः सर्गः । युधिष्ठिर-शल्ययोः संवादः ॥]
परं किमपि वक्तव्यमस्ति रुन्द्धे त्रपा तु माम् । वच्मि किञ्चित्तथापि त्वां नैव चेदुर्मनायसे ॥१८०॥ स्वाजन्यप्रणयेन त्वमात्मीयमवगम्य माम् । प्रेषयाञ्चकृषे दूतं समित्यामन्त्रणाय मे ॥१८१॥ किन्तु दूतागमात्पूर्वमुर्वीचन्द्रः सुयोधनः ।। तैस्तैर्भक्तिक्रियारम्भैरुपरोधं मम व्यधात् ॥१८२॥ उपस्थानं समीकेषु तन्मयाऽऽस्मै प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तुं न चाहं वाचमात्मनः ॥१८३॥ किं सोऽपि पुरुषो ? यस्य न गीनिर्वाहशालिनी । किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा ॥१८४॥ विमुच्य तदहं राजन् ! वाहिनीमदवीयसीम् । इत्याख्यातुमिहायातस्त्वं प्रमाणमतः परम् ॥१८५॥ अथाजल्पदजातारिः किं नामेदमसाम्प्रतम् ? । गान्धारेयोऽपि जामेय एव ते ननु मातुल ! ॥१८६॥ तत्त्वया न त्रपा काऽपि कर्तव्या व्रज सत्वरम् । समराय भवद्दत्तसौष्ठवः स प्रतिष्ठताम् ॥१८७॥ इत्युदीर्य तमौदात्त्यदर्शितस्वागतक्रियः । अजातशात्रवो देवः प्रयाणायान्वमन्यत ॥१८८॥ सपादोपग्रहं कुन्तीमानम्य चलितं ततः । यमौ तमनुगच्छन्तौ स्वच्छन्दमिदमूचतुः ॥१८९॥ मातुला ! ऽत्यन्तमौचित्यच्युतमाचरितं त्वया । कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥१९०॥ माद्री माताऽपि लोकेषु किंवदन्त्याऽनया तव । शिरस्त्रपाभराभुग्नं कथमुन्नमयिष्यति ? ॥१९१॥ भीमोद्धतैरमीभिस्ते दुर्यशोभिर्मलीमसम् ।। आवामप्यास्यमार्यस्य दर्शयिष्यावहे कथम् ? ॥१९२।। १. युद्धेषु । २. उदात्तमेव औदात्यम् अत्यन्तमित्यर्थः ।