SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 10 ४९४] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरसमीपे शल्यस्यागमनम् ॥ क्रमाद्वरूथिनी साऽथ व्यतीत्य महतीं महीम् । दशार्णान् प्रवितीर्णारिक्लेशावेशा समाविशत् ॥१६७।। धर्मसूनोश्च विष्णोश्च दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोगसुभगानि पृथक् पृथक् ॥१६८॥ सौविदश्रेणिसंरुद्धाः प्रतिसीरापरिष्कृताः । एतानि परितोऽभूवन् शुद्धान्तपटमण्डपाः ॥१६९॥ यथास्थानं भुजस्थामनामिताशेषविद्विषाम् । सामन्तानामजायन्त निवासाः सुन्दरश्रियः ॥१७०।। अपराह्नेऽथ पल्यङ्कविश्रान्तिगलितश्रमः । एष विज्ञापयाञ्चक्रे वेत्रिणा तपसःसुतः ॥१७१॥ मातुः सहोदरो माया मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्तिभरि ते देव वर्तते ॥१७२।। जवात्प्रवेशयेत्युक्त्वा प्रतीहारं महीपतिः । सानुजः सम्भ्रमाद्भूमिमभ्यगात्कियतीमपि ॥१७३॥ आयान्तमग्रतो वेत्रिदत्तहस्तावलम्बनम् । आश्लिष्यति स्म भूमीन्द्रस्तं मद्राणामधीश्वरम् ॥१७४॥ यथौचित्यं-गतौद्धत्यमनोहारिप्रवृत्तयः । रचयाञ्चक्रुराचारमपरेऽपि नृपानुजाः ॥१७५॥ प्रीतिपल्लवितानन्दकन्दलो मेदिनीपतिः । निजासनसमानेऽथ तं न्यवेशयदासने ॥१७६।। सकुटुम्बस्य तस्याथ नाम गृह्णन् पृथक् पृथक् । पप्रच्छ कुशलोदन्तमुदञ्चत्प्रमदो नृपः ॥१७७॥ ऊचे मद्रपतिर्मद्रं तस्य राजन् ! सनातनम् । .. स्वस्रीयो यस्य विश्वैकमद्रकारो भवादृशः ॥१७८॥ भगिन्यौ विश्वपाविन्यौ कुन्ती माद्री च यस्य मे । ययोः सङ्गेन गङ्गाऽपि प्रत्युत स्वं पुपूषति ॥१७९॥ १. सौविदः अन्तपुररक्षकः । २. प्रतिसीरा जवनिका । ३. मङ्गलम् । ४. भागिनेयः । ५. पवित्रं कर्तुमिच्छति । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy