________________
४||
४८८]
[पाण्डवचरित्रमहाकाव्यम् । युद्धाय सैन्यप्रयाणम् ॥ तद्वो यावन्न सोऽद्यापि व्यलीकं कलयत्यदः । गोपद्वयार्पणात्तावद्युज्येतास्य प्रसादनम् ॥८९॥ तदद्यापि हि बुध्यस्व हितमालोचयात्मनः । कुकुराणां कुलं मा स्म लम्भयः स्मृतिशेषताम् ॥१०॥ विमुञ्च सत्वरं दुष्टौ राजद्विष्टकृताविमौ । चिराय मेदुरामोदां मुदं पुष्णन्तु वृष्णयः ॥९१॥ वाचालपुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोपरागश्यामारुणेक्षणः ॥१२॥ रे दूत ! नूतनं किञ्चित्तवाप्तत्वमिदं खलु । वक्तुं को नाम जानाति त्वां विना पथ्यमीदृशम् ? ॥९३॥ गोपो गोप इति ब्रूते प्रभुस्ते सत्यमेव माम् । खलेभ्यो यत्खलु क्षोणेरहं पाताऽस्मि सम्प्रति ॥९४॥ किं चार्धभरतेशोऽपि क एष पुरतो मम ? । कः कक्षतुङ्गकूटोऽपि पुरो देवहविर्भुजः ? ॥१५॥ सारता जयजीवातुर्न पुनर्बहुसैन्यता । उन्मूलयति वातूलस्तूलराशीन्महीयसः ॥१६॥ किं नाम दृष्टदष्टको दारयेन्न गरीयसी: ? । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ? ॥१७॥ युग्मम् । पक्षपातेन कंसस्य भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभूदस्माकं दुष्टशासिनाम् ॥९८॥ कुरुनन्यायिनः पुष्यन्नन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं ततोऽप्यस्य न जीवितम् ॥९९॥ प्लावयत्यस्त्रकल्लोलैर्मयि कल्पान्ततोयधौ । परित्राणक्षमास्तस्य नोच्चकैरपि भूभृतः ॥१०॥ निहन्तं प्रस्थिता एव करून्वर्तामहे वयम । सोऽप्येतु समरे तस्मिन्भवत्वस्मत्समीहितम् ॥१०१॥
15
20
25
१. जयस्य जीवनम् । २. वायुसमूहः ।