SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 10 ४८६] [पाण्डवचरित्रमहाकाव्यम् । जरासंधदूतस्य कथमम् ॥ परमद्यापि जामातृद्विषौ चेदर्पयिष्यथ ।। तदुदेष्यन्ति कल्याणवल्लयो वः कुले चिरम् ॥६३॥ आख्यातुमिति वो राजन् ! स्वामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेमकृते गोपालबालकौ ॥६४॥ त्यजन्ति कृतिनः काममल्पीयो बहहेतवे । मुनयो विषयाऽऽनन्दं महाऽऽनन्दकृते यथा ॥६५॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेकि न वासरान् ॥६६॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ॥६७॥ दूतवाक्यमिति श्रुत्वा स्वप्रभुप्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥८॥ रमणीयतमैवेयं वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमस्माकमूचिवान्नैव किञ्चन ॥६९॥ क्षत्रगोत्रप्रसूतानां नैतदञ्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि यद्दूरमपराधिनः ॥७०॥ परं स यदि सौहार्दाद्याचतेऽस्मानमूनपि । दद्म एव तदा सर्वं मादृशानां हि मित्रसात् ॥७१॥ यत्तु स्वाजन्यमुत्सृज्य बलाद् बलजनार्दनौ । याचते भवतः स्वामी तदत्यन्तमसाम्प्रतम् ॥७२॥ किं च पापात्मनां कार्यं शासनं भूमिशासनैः । भ्रूणघ्नस्तच्च कंसस्य चक्रे चेत् सबलो हरिः ॥७३॥ तत्कि न ते प्रभोरेव रमणीयमभूदिदम् ? । अरुणेन तमोध्वंसः श्रेयसे किं न भास्वतः ॥७४॥ प्रत्युताधिक्षिपन् गोपदारकाविति ताविमौ । जिघांसति च ते नाथो दोर्दण्डबलदुर्मदी ॥७५॥ 15 १. उष्ट्रम् । २. पामावन्तम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy