________________
10
द्वादशः सर्गः । नैगमादीनां जीवयशसोनगरे आगमनम् ॥]
[४८३ सोऽथ पप्रच्छ तां भद्रे किमेतदसमञ्जसम् । साऽऽचचक्षे सबाष्पाक्षी महाभाग ! निशम्यताम् ॥२४॥ समुद्रविजयोऽमुष्यामस्यामानकदन्दभिः । रामदामोदरावस्यामेतास्वन्येऽपि यादवाः ॥२५॥ चितासु विविशुः कालकुमारभयभङ्गराः । एतस्यां त्वहमप्यस्मि विविक्षुः कृष्णसोदरा ॥२६।। युग्मम् । कुमारोऽथाब्रवीत्प्रत्यज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि दुष्टान्क्रष्टास्मि तांस्ततः ॥२७॥ तंत्कर्षामि द्विषो नूनमपि वैश्वानरोदरात् ।। इति क्रोधेन मूढात्मा स्वमृत्युमविचिन्त्य सः ॥२८॥ देव ! मा मेति सैन्यानामुच्चैरियतामपि । झम्पां कृपाणी दत्ते स्म चितायां रामकृष्णयोः ॥२९॥ युग्मम् । क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्लवैः । भीतैश्च देवपादेभ्यः सैनिकैरपि तत्कृतम् ॥३०॥ तदाकर्ण्य क्षणान्नोऽभूदुर्मिः शोकसागरः ।
, क्रमेण च ययौ शान्ति शत्रवोऽपि मृता इति ॥३१॥ दत्त्वा पत्युश्च बन्धोश्च युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे वैरनिर्यातनासुखम् ॥३२॥ चिराय केचिदादाय रत्नकम्बलकास्ततः । वस्तुजातमथाजग्मुर्नैगमा नगरं मम ॥३३॥ तैर्जीवयशसोऽभ्येत्य रत्नकम्बलकास्ततः । .. .. दर्शयाञ्चक्रिरे चक्रे मूल्यं तेषां च भूरिशः ॥३४॥ तेनाथ तैरसंतुष्टैः खेदादिदमुदीर्यत ।। राजपुत्रि ! पुरा ह्येते द्वारकावासिभिर्जनैः ॥३५॥ इतोऽष्टगुणमूल्येन याचिता रचिताग्रहम । .
25 परमानिन्यिरेऽस्माभिरत्र भूयस्तरेच्छया ॥३६॥
१. वसुदेवः । २. निर्यातना-प्रतिकारः । ३. रत्नकम्बलकादिकम् प्रतौ । ४. 'भूरि सा' इत्येक प्रतिपाठः सम्यक् प्रतिभाति ।
15
20