________________
10
४८२]
[पाण्डवचरित्रमहाकाव्यम् । जरासन्धदूतस्य कथनम् ॥ वाचालमौलिमाणिक्यमुदञ्चितविलोचनः । स राजानं जगादेति यादवान्वयकौस्तुभम् ॥११॥ राजंस्त्वामाह माहात्म्यखवितामरपर्वतः । कीर्तिकृत् त्रिदशाधीशमागधो मगधाधिपः ॥१२॥ दारकौ तव गोक्षीरपानपीनांसकुट्टिमौ । . अस्मज्जामातरं कंसं जघ्नतुनिघ्नचेतसौ ॥१३॥ तदाग:पवमानेन प्रेलितेऽस्मन्मनोवने । यदुवंशैकसंहारकारी कोपाग्निरज्ज्वलत् ॥१४॥ सुताया जीवयशसः पतिमृत्यूच्छलच्छुचः । . लोचनाश्रुपयःपूरैस्तस्मिन्नाज्यघटायितम् ॥१५॥ ततः कालकुमारोऽस्मान्कृतोद्योगान्व्यजिज्ञपत् । संरम्भस्तातपादानां किं सुते सति मय्यपि ॥१६॥ हुंकारेऽपि सति प्राणनिग्रहग्रहिलौजसि । स्वयं संरभते हन्तुं हरिः किं हरिणव्रजान् ॥१७॥ ततः प्राप्यास्मदादेशमावेशविवशः क्रुधः । . . स युष्मान्प्रत्यधाविष्ट सिन्धुरानिव केसरी ॥१८॥ ततोऽस्मिन्नभ्यमित्रीणे भिया यूयमनश्यत । उन्मीलिते वसन्ते हि कीदृशाः शिशिरानिलाः ॥१९॥ क्रोधान्धंभावुकोऽधावत्तदप्यनुपदी स वः । व्यज्ञप्यत चौरेत्य ततः कैश्चिद्दिनैरदः ॥२०॥ यत्कुमारः पुरो गच्छन् क्वचित्परिसरे गिरेः । शून्यानेकस्थलं शून्यरथेभाश्वीयसंकुलम् ॥२१॥ . निर्मानुषपरीवारं स्कन्धावारमुदैक्षत । भीषणाभ्रंलिहज्वालाजटिलांश्च चिताचयान् ॥२२॥ युग्मम् । नामग्राहं यदनां च क्रन्दन्ती परितोऽपि तान् । काञ्चिद्वर्षीयसीमेकां सोऽद्राक्षीदतिदुःखिताम् ॥२३॥ १. हतचित्तौ । २. 'प्रेखितो०' प्रतित्रये । ३. ग्रहिलं-आग्रहवत् । ४. वृद्धाम् ।
15
25