________________
10
15
20
25
४७८ ]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डोः प्रतिवच॑नम् ॥
मत्कोपप्रलयाम्भोधेर्दूरं कौरवभूधरान् । निमज्जयिष्यतः सेतुः शस्त्रसंन्याससङ्गरः ॥३६२॥ अतस्तानेव मद्वाचमाचक्षीथाः पृथासुतान् । युष्माकं चेन्मया जन्म मा स्म तद्भूत कातराः ॥३६३|| मा भूच्च वः समीकेषु' बान्धवस्नेहविप्लवः । कार्यं बन्धुष्वपि प्रेम न सर्वस्वविलोपिषु ॥३६४॥ सेनाभीनपि निर्भिन्द्यात्स्वपदाक्रान्तिकारिणः । निर्नाशयति तिग्मांशुर्यद् व्योमव्यापिनो ग्रहान् ॥ ३६५॥ प्राणान्परैर्हृतक्षोणिः क्षत्रियः क्षत्रियः किमु ? | विलूनकेसरो जीवन्केसरी किमु केसरी ? ॥ ३६६॥ जीवतो यस्य जीवन्ति परिभूयाप्यरातयः । तस्मात्पुंसो परं पांसुर्योऽस्ति चेद् ग्रसते जलम् ॥३६७॥ स ग्रावापि वरं योऽर्कपादाक्रान्तो ज्वलत्यलम् । न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ ३६८॥ तद्वत्साः ! शममुत्सृज्य स्वमूरीकृत्य तन्महः । महीं कीर्त्या समं प्रत्याहरेत रिपुभिर्हताम् ॥ ३६९॥ किं चान्यत् कृष्ण ! निष्णाते वैरिखण्डनकर्मसु । सहाये त्वयि सङ्ग्रामः कौन्तेयैर्नातिदुर्जयः ॥३७०॥ इत्युक्ते पाण्डुना चण्डकोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून् ! कैटभारातिरभ्यधात् ॥ ३७१॥ विरोधिनां जये राजन्संशयस्तव मा स्म भूत् । इयत्कालमगोपायत् त्वत्तनूजक्षमैव तान् ॥३७२॥ दावानले ज्वलत्युच्चैर्महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्णमिषीकाणां तु का कथा ? ॥३७३॥ किन्तु राजन् ! मया सार्धं त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं दुःखं तिष्ठन्ति ते सुताः ॥ ३७४॥
१. युद्धेषु । २. पितृव्यान् । ३. कुशले । ४. तृणानाम् ।