SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ [४७७ एकादशः सर्गः । कृष्णपाण्डवानां मिलनम् ॥] तन्न्यायविकलस्यापि गान्धारीतनुजन्मनः । कार्ये नूनममून्प्राणान्मोक्ष्यामि समराङ्गणे ॥३४९॥ त्वया कक्षीकृतः कृष्ण ! धर्मभूभॊक्ष्यते भुवम् । वातेनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥३५०॥ भविता तु मया त्यक्तो निराशः कौरवो भृशम् । वह्नः कियानवष्टम्भो विमुक्तस्य नभस्वता ? ॥३५१॥ अङ्गै भारभूतैः किं ? न येषामस्थिसञ्चयः । दधाति युधि मित्रार्थे सैन्यसम्मर्दपांसुताम् ॥३५२॥ मित्रस्नेहेन दग्धोऽयं रूषितो रणरेणुभिः । खड्गधाराजलैः स्नातो धन्यस्यात्मा विशुध्यति ॥३५३॥ तन्न किंचन वाच्योऽहं धर्मभूमैत्रकर्मणि ।। महात्मानो हि सर्वेषां हृदयाकूतकोविदाः ॥३५४॥ किं तु मे नतिमाख्याय मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि चतुर्णां त्वत्तनूरुहाम् ॥३५५॥ फाल्गुनं पुनराबाल्यादपि केनापि हेतुना । मन्मनो विजयाकाङ्क्षि संपराये जिघांसति ॥३५६।। तम्मातस्ते भविष्यन्ति पञ्चैव नियतं सुताः । सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥३५७॥ इत्युक्तवन्तमालिङ्ग्य तमभङ्गरसङ्गरम् । उल्लसद्विस्मयः कर्णं कंसारातिय॑वीवृतत् ॥३५८॥ मन्दिरे विदुरस्याथ मग्नं शमसुधाम्बुधौ । अद्राक्षीत् पुण्डरीकाक्षः पाण्डु ताण्डवितोत्सवम् ॥३५९।। पञ्चग्रामार्थनापूर्वं विग्रहान्तमसौ ततः । निजागमनवृत्तान्तं पुरः पाण्डोर्यवेदयत् ॥३६०॥ प्रकोपं शमपीयूषवाधेरौनिलोपमम् । तत्कालं कलयन् पाण्डुर्बभाषे कैटभद्विषम् ॥३६१॥ १. अङ्गीकृतः । २. नमस्कारम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy