________________
5
10
15
20
25
४७६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कर्णेनदत्तोत्तरः ॥ तत्तवार्हति धर्मात्मजन्मना सह सङ्गमः । न पुनर्धार्तराष्ट्रेण मतिमन् ! पापजन्मना ॥ ३३६॥ किं च त्वमपि कौन्तेयः प्रकारेणासि केनचित् । ममात्रैष्यत एवासौ रहः कुन्त्या निवेदितः ||३३७।। त्यक्तलब्धस्तु राधायाः कर्ण ! त्वमसि नन्दनः । नहि निर्याति वैडूर्यं बालवायभुवं विना ॥ ३३८ ॥ तद्भवान्सुभटोत्तंस ! कौन्तेयानां सहोदरः । बन्धूनेव ततोऽभ्येतुं साम्प्रतं तव साम्प्रतम् ॥३३९॥ कृते तेजस्विधौरेय ! सङ्गते धर्मसूनुना । तदीयबन्धुतामुक्तालतायां नायकायसे ॥३४०॥ इत्युदीर्य स्थिते प्रीतिनिर्भरं कैटभद्विष 1 कर्णः कीर्णस्मितज्योत्स्नावदातवदनोऽवदत् ॥३४१॥ सत्यं नतिलताकन्द ! गोविन्द ! त्वं यदभ्यधाः । मैत्री काममयुक्तैव सार्थं दुर्योधनेन मे ||३४२॥ आलिङ्गति कदाचित् किं हेमन्तं मलयानिलः ? । भजते विभवः किं वा दारिण समागमम् ? ॥३४३॥ परं दुर्योधनेनैव सूतत्वमविचित्य मे । भूपतित्वं सितच्छत्र पवित्रमभिसूत्रितम् ॥३४४|| मयाऽप्यमायिना तस्मिन्नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा नेतव्या यत्र ते रुचिः ॥ ३४५॥ मित्रोपकृतिभिर्नित्यमात्मा नीतोऽयमार्द्रताम् ।
तद्
द्विषद्योगधूलीभिः पङ्किलीक्रियते कथम् ? ॥३४६॥
गान्धारेयं परित्यज्य पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दे मयि तस्यापि कीदृश: ? ||३४७ ॥ अकीर्तयस्तु काकोलकोलकोकिलकश्मलाः । विश्वेऽपि मयि कर्तारः शाश्वतीं दर्शशर्वरीम् ॥३४८॥
१. कुन्तीपुत्रः । २. योग्यम् । ३. कृष्णे । ४. कृतम् । ५. शत्रुसंयोगरुपधूलीभिः ।