SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३४] [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेय कथितो कुन्तीवृत्तान्तः ॥ जङ्घाकाण्डे किलैतस्या नाले पादसरोजयोः । रम्भास्तम्भायितं चाभ्यामूरुभ्यां यौवनोत्सवे ॥४०१॥ नितम्बस्थलमेतस्या जैत्रभूमिमनोभुवः । यः सदैवात्र वास्तव्यः शास्ति विश्वत्रयीमसौ ॥४०२।। बलिष्ठ एव मध्योऽस्याः कृशोदर्याः कृशोऽपि हि । यो वलित्रितयाक्रान्तोऽप्यधिकं पुष्यति श्रियम् ॥४०३।। अपूर्वं निर्वृतिस्थानमेतस्याः स्तनमण्डलम् । मुक्ता व्यक्तं विलोक्यन्ते यत्र हारिणि भासुराः ॥४०४॥ एतस्याः सरलाकाराः रोमराजिविराजते । कन्दर्पदन्तिनो बिभ्रत्यालानस्तम्भविभ्रमम् ॥४०५॥ यदस्या वदनौपम्ये पार्वणेन्दोविलोकनम् । गुञ्जापुञ्जेन सार्धं तत्तपनीयस्य तोलनम् ॥४०६॥ अस्याः सुकेश्याः कबरीभारः केनोपमीयते ? । समालम्बितरोलम्बैः सुस्रिग्धो यस्य कालिमा ॥४०७।। इत्येवं चिन्तयत्येव स्मेरवक्ताम्बुजे नृपे । सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ॥४०८॥ भद्र ! प्रबुद्धराजीवमुखी केयमलिख्यत । इह चित्रपटे नारी दिव्यनारीविजित्वरी ? ॥४०९।। पान्थः पुरस्तादस्तोकविस्मयस्मेरचेतसे । . अथासौ मूलतस्तस्मै तं वृत्तान्तमचीकथत् ॥४१०।। मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी । आलिङ्गतीव कालिन्दी या मुदा वीचिबाहुभिः ॥४११॥ तेजोधाम यदुर्नाम तस्यामासीन्नरेश्वरः । यतोऽभूद्भुवनोत्तंसो वंशो यादवभूभुजाम् ॥४१२॥ प्रतापी तनुजस्तस्य शूरः शूरसमोऽभवत् । लीनं यत्रोदिते शत्रुकौशिकैगिरिकन्दरे ॥४१३॥ 15 25 १. विकसितकमलमुखी । २. यमुना ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy