________________
एकादशः सर्गः । कृष्णस्य क्रोधः ॥ ]
कृपयैव तु नेदानीमेव व्यापादयाम्यम् । भवन्तु पाण्डवेयानां सावकाशाः क्रुधोऽपि च ॥२९७॥ कुरुक्षेत्रे त्वसौ क्षत्रलक्षगुप्तोऽपि ढौकताम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजवैभवम् ॥२९८॥ एते तु वयमायाता एव सम्प्रति सत्वरम् । ऊर्जस्विभुजवीर्याणामाहवोऽपि महोत्सवः ॥ २९९ ॥ इत्युक्त्वा सहसोत्थाय क्रोधात्ताम्रतनुद्युतिः । ज्वलन्निव बृहद्भानुर्निर्ययौ सहसा हरिः ॥ ३००॥ तत्प्रकोपाऽऽकुलीभूतस्वान्ताः सान्त्वयितुं ततः । गाङ्गेय-धृतराष्ट्राद्याः पारिषद्यास्तमन्वयुः ॥३०१॥ ततः करे समालम्ब्य गौरवोत्तरया गिरा । ते कामं चकितात्मानो मञ्जुकेशिनमूचिरे ||३०२|| महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः । तुषारतरधारो हि तडित्तप्तोऽपि तोयदः ॥ ३०३ ॥ न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहृते न हरिः खेदं फेरण्डरवताण्डवैः ॥३०४॥ सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रौतिताम् ॥३०५॥ तन्मनागपि मा कृष्ण ! क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं हिमांशोरग्निवृष्टयः ? ॥३०६॥ आसतां पाण्डवास्तावत्त्वयाऽप्येकाकिना रणे । अभियुक्ताः क्व नामैते सन्ति दुर्योधनादयः ॥३०७॥ पुरः केसरिणः के हि दुर्धरा अपि सिन्धुराः । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ? ॥ ३०८ ॥ त्वया पाणौ कृता पूर्वं जयश्रीः परिभोगभाक् । कथं गोविन्द ! निर्व्रडैः पाण्डवैः परिणेष्यते ॥३०९॥
[ ४७३
१. म्यहम् इति प्रतित्रय । २. सुन्दरकेशवन्तं - कृष्णम् । ३. रीति:-पित्तलनामकधातुः इत्यर्थः । ४. 'आः कदापि प्रतिद्वय ।
5
10
15
20
25