________________
४७४] [पाण्डवचरित्रमहाकाव्यम् । कृष्णेन मार्गे गच्छता कर्णस्य कृतोपदेशः ॥
विनाऽपि त्वां विजेष्यन्ति कौन्तेयाः समिति द्विषः । येषां तौ सहयोद्धारौ धर्मन्यायौ तरस्विनौ ॥३१०॥ पापीयांसस्तु लप्स्यन्ते गान्धारेयाः क्षयं स्वयम् । जीवितव्यं कियन्नाम गुर्वादेशविलङ्घिनाम् ? ॥३११॥ त्वं तु स्वजनदायादघातपातकसम्भवाम् । अकीर्ति मा ग्रहीरेतां महतां हि यशः प्रियम् ॥३१२॥ तदाहूतोऽपि कौन्तेयैरायासीर्मा स्म संयति । त एव हन्त युध्यन्तां येषां वैरं परस्परम् ॥३१३॥ वयं मान्याश्च कार्येऽस्मिन्वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥३१४॥ इत्येषां विनयााभिर्भारतीभिर्मदूकृतः । कोपप्रशान्तिकान्तश्रीजगाद गरुडध्वजः ॥३१५॥ वर्षीयांसो भशं यूयं माननीयगिरो मया । मां वीक्ष्य विग्रह: किन्तु प्रस्तुतः पाण्डवैरपि ॥३१६॥ तदेषां सांयुगीनानां संयुगोत्सङ्गसङ्गिनाम् । भाव्यमेव मया सद्भिः प्रतिपन्नं हि नान्यथा ॥३१७।। किन्तु सङ्ग्राममुत्तीर्णो न ग्रहीष्ये धनुः स्वयम् । सारथ्येनैव पार्थस्य सहायो भवितास्म्यहम् ॥३१८॥ एतावताऽस्तु यौष्माकवचसामनतिक्रमः । अमेयमहिमानो हि मान्या एव भवादृशाः ॥३१९॥ इत्युक्त्वा स मिलत्पाणिकुड्मलस्तान्यवर्तयत् । राधेयं च करे धृत्वा रथमारोपयन्निजम् ॥३२०॥ पाण्डुमालोकितुं गच्छन्हरिविदुरवेश्मनि । कर्णमभ्यर्णमासीनमभ्यधादिदमादरात् ॥३२१॥ कर्ण ! निर्नाम निर्मज्जत् त्वया वीरव्रतं धृतम् । प्रकाशेन प्रदीपस्य नेत्रकर्मेव रात्रिषु ॥३२२॥
15
20
१. युद्धे । २. स्वकरे प्रतौ० ।