________________
10
४७२] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य-कृष्णं प्रति कथनम् ॥
कुशस्थलं वृषस्थलं माकन्दी वारणावतम् । चतुरोऽवरजेभ्योऽमून् किञ्चित्त्वाद्याय पञ्चमम् ॥२८४॥ युग्मम् । इयताऽपि त्वया संधि ते विधास्यन्ति मगिरा । सन्तोऽल्पेनापि तुष्यन्ति वीक्षमाणाः कुलक्षयम् ॥२८५॥ अन्यथा नीरराशीनामिव प्लावयतां जगत् । त्वबले क इवास्ते यस्तेषां सेतुर्भविष्यति ? ॥२८६॥ व्याहृत्येति हृषीकेशे स्थिते दुःशासनाग्रजः । ऊचे चम्पाधिपालोकसाचिसञ्चारिलोचनः ॥२८७।। एतावदपि गोविन्द ! मन्यसे नैव किं बहु ? । यदद्याप्येष मुञ्चामि प्राणतः पाण्डुनन्दनान् ॥२८८॥ इदानीमपि यद्येते वार्ता ग्रामस्य दोर्मदात् । एकस्यापि करिष्यन्ति न भविष्यन्ति तद् ध्रुवम् ॥२८९।। स्वभुजौर्जित्यपर्यन्तं तेऽथ काङ्क्षन्ति वीक्षितुम् । तदाऽऽयान्तु कुरुक्षेत्रे क्षिप्रं साकमपि त्वया ॥२९०॥ इत्युक्ता सह कर्णेन निर्गत्य सदनाद्वहिः । स निश्चित्य हरेर्बन्धमेत्य भूयोऽप्युपाविशत् ॥२९१॥ तं कथञ्चित्परिज्ञाय सात्यकिर्मन्त्रमेतयोः । संज्ञया ज्ञापयामास कंसविध्वंसकारिणः ॥२९२॥ ततस्ताम्रीभवद्भालकपोलनयनोत्पलः ।। सस्वेदपुलकः क्रोधाज्जगादेति गदाग्रजः ॥२९३॥ उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः ।। दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥२९४॥ एतज्जीवातवेऽप्युच्चैर्बहुधा मम धावतः । बन्धमिच्छति दुर्मेधास्तत्कोऽयं कुपिते मयि ॥२९५॥ मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोर्महः ॥२९६॥
15
25
१. कृष्णः ।