SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । दुर्योधनेन कृतः कृष्णस्य तिरस्कारः ॥ ] दुर्गेहिनी व पुंसः श्रीर्वेश्मनीव न मानसे । दत्ते हितोपदेशानां स्वजनानामिवाश्रयम् ॥२७१॥ लक्ष्मीश्च भुजदर्पश्च द्वयमेतद्दुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च दुःसहौ खलु संहतौ ॥ २७२॥ सुजनोक्तिः कथंकारमहंकारमयं मनः । विशेत्कुलीनकन्येव निवासं विटसङ्कटम् ? ॥ २७३॥ संवृत्त्य तद्भुजागर्वं लक्ष्मीमदमुदस्य च । शृणोति चेत्तदेतर्हि किञ्चिद्वच्मि सुयोधनम् ॥ २७४॥ स्वच्छन्दं वद गोविन्देत्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह विहङ्गेश्वरवाहनः ॥२७५॥ पाण्डवेभ्यो भुवः खण्डमपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति तव प्राणैः सहाखिलाम् ॥२७६॥ पार्थानुन्मथ्य साम्राज्यं त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः काः श्रियः स्वजनैर्विना ॥ २७७॥ रणाङ्गणे च ते नूनं विपत्स्यन्ते न केवलाः । तवापि गात्रमात्रेण यदि स्यादवशेषता ॥ २७८॥ तदारब्धकुलोच्छेदः कोऽयं शौण्डीरिमा तव ? | किमेतच्च कुलाक्षिप्तप्रभावं बुद्धिवैभवम् ? ॥२७९॥ यतो द्वेधाऽप्यसौ वेधा धर्मभूर्धर्मकर्मणि । आतङ्ककृद्गदोऽरीणां द्वेधाऽपि पवनोद्भवः ॥२८०॥ बीभत्सुरतिबीभत्सकर्मकृद्वैरिदारणे । यमौ दोर्बलदुःप्रेक्ष्यविपक्षपटलीयमौ ॥२८१॥ श्रेयस्करस्तदेतैस्तै संधिरेव पृथासुतैः । ईदृशा हि क्व लभ्यन्ते सहायाः स्वस्य बान्धवाः ? ॥२८२॥ विस्मार्य तदपस्मारं वितर्क्यादर्कमात्मनः । पञ्चग्रामानिमान्पाण्डुसुतेभ्यो दातुमर्हसि ॥ २८३ ॥ सदृशौ । [ ४७१ १. कुन्तीपुत्रान् । २. 'तुलाक्षिप्त- प्रभावं' इतिप्रत्य० । ३. पटली - समूहः तस्यां यमराज 5 10 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy