SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । विदुरस्य वैराग्यं शुभचिंतनं च ॥ ] किं च यज्जीयते जातु कातरैरप्यकातरः । तद्दैववैभवं किञ्चिन्न नाम भटिमव्ययः ॥ २१९ ॥ तन्मा भैष्टमदीपिष्ट विष्टपग्रासलालसः । मद्विक्रमकृशानुश्चेत्तद्दग्धा एव पाण्डवाः ॥ २२०॥ एतैर्जराप्रलापैस्तु मा मा मां भयविक्लवैः । पुनः पुनर्मन: क्लान्तिहेतुभिर्व्यथयिष्यथः ॥ २२२ ॥ तस्येत्युक्तिमुपश्रुत्य श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्रवीर्यौ स्वस्थानमीयतुः ॥२२२॥ अथदायादसंदोहक्षयाशङ्काविरक्तधीः । संसारसुखसम्भारभङ्गरो विदुरोऽभवत् ॥२२३॥ स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक्संपदः प्रभुत्वं धिक् धिक् वैषयिकं सुखम् ॥२२४॥ यत्कृते पितरं पुत्रः पिता पुत्रमपि क्वचित् । सुहृच्च सुहृदं बन्धुर्बान्धवं च जिघांसति ॥ २२५॥ धिक्पापप्रभवा पापप्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्फलं प्रसुवते लताः ॥ २२६॥ श्रीमातङ्गीपरीरम्भलम्भिताद्भुतकल्मषाः । न धर्ममग्रजन्मानं स्प्रष्टुमप्यधिकारिणः ॥ २२७॥ कथं नु विषयासङ्गपङ्कपङ्किलमूर्तयः । सुभगंभावुकीभूय भजेयुर्मुक्तियोषितम् ॥२२८॥ एतानधर्मचाण्डालसंश्लेषमलिनान् कुरून् । न खलु द्रष्टुमीशिष्ये म्रियमाणान् रणाङ्गणे ॥ २२९॥ तत्तदीयमदृष्ट्वैव संहारं समराजिरे । `मम प्रव्रजितुं सम्प्रत्युत्कर्षं दधते धियः ॥ २३०॥ एवमालोचयन्सोऽयमश्रौषीत्कस्यचिन्मुखात् । यदुद्याने मुनिर्ज्ञानी विश्वकीर्तिरुपागमत् ॥२३१॥ १. भटत्वस्य शौर्यस्य व्ययः । २ योषितः एक प्रतिपाठः । [ ४६७ 5 10 1115 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy