SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४६६ ] [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्र- संजयाभ्यां धार्तराष्ट्रस्य कृतोपदेशः ॥ दोर्दण्डान्पाण्डवेयानां सन्निधायाधिमानसम् । आत्मनः सत्यमत्यन्तमुत्तम्भयितुमर्हसि ॥२०७॥ यद्वा राधेयगाङ्गेयद्रोणादीनां धनुष्मताम् । भुजानालोक्य निर्भीको भुवं नार्पयसि ध्रुवम् ॥२०८।। अमीषामपि गन्धर्व-राज- गोग्रहविग्रहे । प्रत्यक्षीकृतमेवास्ति भुजयोरूर्जितं त्वया ॥ २०९ ॥ निदेशाद्यद्यजातारेर्नागमिष्यद् धनंजयः । त्वां गन्धर्वेन्द्रपारीन्द्रात्कस्ततोऽमोचयिष्यत ? ॥ २१०॥ गोग्रहे स्मरसि प्राणनिग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वैस्त्रमूर्त्या कीर्तिं हरिष्यति ॥२११॥ प्रेयस्यः सर्वदा यस्य धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभिर्लक्ष्मीभिर्नास्य सङ्गमः ॥ २१२ ॥ यस्य धर्मोऽयमेकोऽपि सैन्ये सन्नह्यते मुदा । कक्षवत्प्रतिपक्षौघं तस्य संहरतेऽग्निवत् ॥ २१३ ॥ वत्स ! मत्सरमुत्सृज्य तदर्पय महीमिमाम् । धर्म- जीवित - कीर्तीनां मा स्म भूः क्षयवासरः ॥ २१४॥ इत्याकर्ण्य तयोर्वाचमुच्चैरुत्प्रासेपांसुरः । दोर्दर्पदर्शितावज्ञमभ्यधाद् धृतराष्ट्रभूः ॥२१५॥ तातौ ! धर्ममपि क्षात्रं न जानीथः कथं युवाम् ? | काश्यपीं करमारूढां क्षत्रियः क इवार्पयेत् ? ॥२१६॥ प्रत्युतार्पयतः कामं दो: कीर्तिः कलुषीभवेत् । कराक्रान्तकरित्यागे कुण्ठं कैण्ठीरवोर्जितम् ॥२१७॥ न्यायोऽपि स खलु न्यायो यस्तेजस्विभिरादृतः । अङ्गीकृतः प्रदीपौघैर्दर्शोऽपि हि महोत्सवः ॥२१८॥ १. मनसि । २. पारीन्द्रः - सिंह । ३. वस्त्रमिषेणेत्यर्थः । ४. तृणवत् । ५. उपहाससहितः । ६. सिंहशौर्यम् । ७. 'अन्यायो० प्रतौ पाठः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy