________________
[४६५
10
एकादशः सर्गः । विदुर-धुतराष्ट्रयोः संवादः ॥]
यो बन्धूनामुपेक्षेत कुव्यापारदवानलम् । पश्य तस्यापि किं न स्यात्तद्दोषप्लोषवैशसम् ? ॥१९४।। मृत्युमूलं ह्यनुच्छिन्दन् कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के सुधाधामाऽप्यजायत ॥१९५॥ परं मया दुरात्माऽयं बोधितोऽपि सहस्रधा । पिशाचकीव दुर्दैवाद् बुध्यते न कथञ्चन ॥१९६।। द्वावप्यावां तमभ्येत्य बोधयावः पुनस्ततः । कथञ्चिद्यदि नामास्मादपस्मारान्निवर्तते ॥१९७।। इत्यालोच्याथ तौ गत्वा बद्धप्रणयमूचतुः । दुनिरोधस्फुरत्क्रोधसुदुर्बोधं सुयोधनम् ॥१९८॥ वत्स ! वात्सल्यसौत्सुक्यमस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं नियुक्ते नौ पुनः पुनः ॥१९९॥ निष्टां वचःप्रतिष्ठैव प्रापयेत्पुरुषव्रतम् । क्षमेव गुणसंभारं राकेव मृगलाञ्छनम् ॥२००॥ वाचि भ्रष्टप्रतिष्ठस्तु हीयते पुरुषव्रतात् । पुरुषव्रतशून्याऽऽत्मा श्वसन्नपि शवायते ॥२०१।। शवायमानः क्रमशस्त्यज्यते स्वजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् ।।२०२॥ मा कृथास्तद्वचोलोपं पुरुषव्रतहारिणम् । असत्यवचसः सत्यं स्थास्नवो न श्रियोऽपि ते ॥२०३॥ यान्त्यस्ताश्चोत्पथायाताः सपुत्रपशुबान्धवम् । भवन्तमपि नेष्यन्ते तटग्राममिवापगाः ॥२०४॥ सत्यपतं तु कौन्तेयमेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः सर:सरसिजोज्ज्वलम् ॥२०५॥ सत्यमेव तदीयं ते पुराऽपि हि महीमदात् । को नामापरथा तस्मादिमामाच्छेत्तुमीश्वर: ? ॥२०६॥
15
20
25
१. मृतकमिवाचरति ।