________________
४६८]
10
[पाण्डवचरित्रमहाकाव्यम् । विश्वकीर्तिमुनेः धर्मदेशना ॥ तत्रोपेत्य ततो हर्षादुन्मिषत्पुलकाङ्करः । स तं मुनीन्द्रमानम्य तत्पुरस्तादुपाविशत् ॥२३२॥ अथ संसारसन्तापनिर्वापणसुधोपमाम् । आरेभे भगवान् दत्तशर्माणं धर्मदेशनाम् ॥२३३॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्करम् ? ॥२३४॥ कषायदृग् विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालङ्कर्मीणता क्वचित् ॥२३५॥ कषायघनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ? ॥२३६॥ कषायमदिरास्वादविपर्यासितचेतसः । हहा ! देहभृतो हन्तुमीहन्ते बान्धवानपि ॥२३७॥ कषायनिम्नगापूरः कषित्वा भाग्यभूरुहम् । जन्तून्प्लुतनयद्वीपः प्रक्षिपेद्विपदार्णवे ॥२३८॥ भवेत्पाणिधमः कामं सनातनपुरीपथः । स्वतन्त्रास्तत्र चेन्न स्युः कषायाः परिमोषिणः ॥२३९।। त एवास्माद्विमुच्यन्ते कषायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूषसरसोऽन्तरम् ॥२४०॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । प्राणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ॥२४१॥ तत्त्वयाऽप्यद्य दायादकषायग्रीष्मतापितः । महात्मन् ! शमपीयूषैरात्मा निर्वाप्यतामयम् ॥२४२॥ मनस्तव परिज्ञाय ज्ञानात्संसारकातरम् । आयातोऽस्मि पथो दूरात्तद्विधेहि स्वमीहितम् ॥२४३॥ सर्वसंहारसाक्षेपा राक्षसी भवितव्यता । न निवतिष्यते सेयमकृत्वा ते कुलक्षयम् ॥२४४॥
15
25
१. दत्तसुखाम् । २. न समर्थता । ३. (अन्धकाराद्यावृत मार्गः) पाणिं धमतीति पाणिधमः सप्रकाश इत्यर्थः संभवति ।