________________
[४५७
एकादशः सर्गः । पाण्डवानां कथनम् ॥]
सैष निःशेषभूपालमौलिलालितशासनः । तृणाय न श्रियं शातमन्यवीमपि मन्यते ॥९०॥ राजानस्तेन सम्मानदानैरानन्दितास्तथा । चक्रुर्यथोपकुर्वाणाः प्राणानपि न किञ्चन ॥९१॥ ह्रियन्ते स्म तथा तेन भीष्माद्या अपि भक्तितः । यथा तुल्येऽपि वात्सल्ये तस्यैव जयकाक्षिणः ॥१२॥ चतुरङ्गचमूक्रान्तविश्वविश्वंभरातलः । नाकनायकमप्येष करदीकर्तुमिच्छति ॥९३॥ चतुर्भिरपि तन्नायमुपायैर्बत साध्यते । दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥१४॥ गजेन्द्रसज्जनं वाहवाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चैस्तत्पुरे समरोद्यमः ॥१५॥ मया विष्णुर्मया जिष्णुर्मया भीमो मया यमौ । तपःसूनुर्मयेत्येवं वियन्ते तद्भटैर्भटाः ॥९६।। कृच्छ्रेणैव ततो नैदंयुगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च यद्यादीयते मेदिनी ॥९७॥ इत्याख्याय स्थिते तस्मिन्नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः कैटभारिरभाषत ॥९८॥ पुराऽपि ज्ञातमेवैतत्कार्यं दण्डैकगोचरम् । दूतस्तु प्रहितोऽस्माभिर्लोकनिर्वादभीरुभिः ॥९९॥ तस्य धीरधुरीणस्य न नाम तदसाम्प्रतम् । वीक्षितुं समरोत्सङ्ग रङ्गमुद्यच्छते स यत् ॥१००॥ आत्मनश्च रिपूणां च यददृष्टैव दोर्बलम् । अर्थ्यते पृथिवी सा हि शूराणां महती त्रपा ॥१०१॥ तत्प्रदत्तां महीमेतामस्माकमपि गृह्णताम् । . कामं हसिष्यते राजगोष्ठीषु भुजसौष्ठवम् ॥१०२॥
१. इन्द्रसंबन्धिनीम् ।