________________
5
10
15
20
25
४५८ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवानां युद्धसज्जता ॥
न नाम निर्जितामन्यैर्लक्ष्मीं काङ्क्षन्ति दोर्भृतः । स्वयं हि निहतैर्नागैराहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन रमणीयमनर्पणम् । अन्यथा हि कथं मे स्यात्सङ्गरोऽयमभङ्गुरः ? ॥१०४॥ शिरःसरोरुहाकीर्णैर्विरोधिरुधिरासवैः । हरिष्याम्यद्य मेदिन्याः स्वभारवहनक्लमम् ॥१०५॥ पार्थोऽपि प्रथमानाङ्गवेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं भाग्यैर्जागरितं मम ॥१०६॥ निवाप्येत र्रणश्राद्धः कौरवैरेव मे भुजः । न सरःकृतसौहित्यस्तृप्यतीभः कराम्भसा ॥ १०७॥ आदीयते स्म तैः साकं कृष्णाकेशांशुकैः क्षितिः । गृह्णन्तः केवलामेव वयं लज्जामहे न किम् ॥१०८॥ तत्तां प्रत्याहरिष्यामो जीवितैः सह विद्विषाम् । तत्कीर्तीः सुचिरोपात्ताः कलान्तरपदे पुनः ॥१०९॥ यमावप्यूचतुः कालद्विजिह्वरसनोपमौ । संहर्तुं ताम्यतः कामं शात्रवानावयोर्भुजौ ॥११०॥ धर्मजोऽथाब्रवीद्बन्धुवधाय किमु धावति । मनो मे ? किन्तु कार्येऽस्मिन्दैवदृष्टे करोमि किम् ? ॥ १११ ॥ सर्वैः सज्जीक्रियन्तां तत्पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृवधपातकमप्यसौ ॥११२॥ इत्यादेशात् तपःसूर्नोर्देवस्य च मुरद्विषः । प्रस्थानाय नृपैः सेनाः सज्जीकर्तुं प्रचक्रमे ॥११३॥ अन्येद्युर्धृतराष्ट्रस्य सारथिः संजयाभिधः । प्रतीतः प्रतिदौत्याय तपःसुतमुपागमत् ॥११४॥ सोऽथ सान्त्वमयैर्वाक्यैरभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां भाषते भूप ! मद्गिरा ॥११५॥
१. युद्धश्रद्धालुः ।