________________
5
10
15
20
25
[ पाण्डवचरित्रमहाकाव्यम् । दूतेन कृष्णसभायां कथितो वृत्तान्तः ॥ किमाचक्षे रिपुक्षोदविलक्षनियमौ यमौ । गृह्णीतस्तुनतारातिजीवितं सुनयौ न यौ ॥७७॥ ज्येष्ठभ्रातुः संरस्वन्त इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहङ्कारद्वीपं न प्लावयन्ति ते ॥७८॥ अर्पयिष्यसि तन्नूनं काश्यपीं शिरसा समम् । लोभोऽयं लम्भयेत्प्राणसंशयं हि गुरूनपि ॥७९॥ इत्युक्तवान्स वाग्ब्रह्मप्रौढिमाढ्यंभविष्णुधीः । स क्रुधा धार्तराष्ट्रेण संरम्भादभ्यधीयत ॥८०॥ दूतत्वाच्च द्विजत्वाच्च त्वमवध्योऽसि भूभुजाम् । तेन यद्रोचते तुभ्यं ब्रूहि तद्ब्राह्मणब्रुव ! ॥८१॥ वैरिणां तु पुरः कोऽपि यदि स्यात्तस्य तद् ध्रुवम् । एवं जल्पत एव द्राक् छिन्नैव रसना भवेत् ॥८२॥ किं तु चेत्ते विशिष्टत्वमस्ति किञ्चित्ततो मम । सवैकुण्ठान्कुरुक्षेत्रे दर्शयेथा पृथासुतान् ॥८३॥ इति व्याहृत्य विस्फूर्जत्कोपाटोपारुणेक्षणः । व्यस्राक्षीत्तं पतिः क्षोणेग्रहयित्वा गले बलात् ॥८४॥ विदुराद्यैस्तदा वीक्ष्य तं तथा गलहस्तितम् । समीरजन्मनो मेने सन्धा निर्वाहशालिनी ॥८५॥ वैरिभूधवसम्बाधवारकां द्वारकां ततः । सोऽभ्येत्य पाण्डवोपेतं पुण्डरीकाक्षमैक्षत ॥८६॥ स्वस्तिगर्भमुखाब्जेन निविश्याग्रे गदाग्रजम् 1 अभ्यधीयत गान्धारीसुतोदन्तः पुरोधसा ॥८७॥ देव ! दोर्गर्विते तस्मिन्साम निर्नाम नश्यति । अम्भःकुम्भ इव क्षिप्तो दीप्ते दवहुताशने ॥८८॥ दीपयेत्प्रत्युत प्रायः साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्तार्चिः सर्पिषा तर्पितः खलु ॥८९॥
१. समुद्राः । २. कृष्णसहितान् । ३. प्रतिज्ञा ।
४५६ ]