SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३२] 5 [पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रादीनाम् क्रीडा ॥ निजमेनं प्रियावर्ग जानासि विरहासहम् । तदेहि देहि प्राणेश ! द्रुतं प्रतिवचोऽधुना ॥३७५॥ एवं विलापवैकल्यं प्राप्ताः संस्थाप्य तास्तदा । चकार तस्य गाङ्गेयो निवापप्रमुखाः क्रियाः ॥३७६।। बाल्ये(ल्य) चापल्यललितैः कुमाराणां मनोरमैः । स शोकं स्तोकतां निन्ये सत्यवत्याः कथञ्चन ॥३७७।। तथाऽजनि कुमाराणां बन्धुस्नेह: परस्परम् । यथैषां क्षणमप्यस्थादेको नैकतमं विना ॥३७८।। बालेष्वपि कुमारेषु स्वर्गतेऽपि नराधिपे । भयाद्भीष्मस्य राजानो सीमानं न ललविरे ॥३७९॥ तेषां शस्त्रे च शास्त्रे च भीष्म एवाभवद् गुरुः । अम्भोधराणामम्भोधिरेव कुक्षिभरिभवेत् ॥३८०॥ नृलोक इव लोकेषु तेषु त्रिष्वपि बन्धुषु । गोत्राधारतया पाण्डुर्मध्यमोऽपि व्यशिष्यत ॥३८१॥ कनिष्ठं धृतराष्ट्रस्तं गुणज्येष्ठममन्यत । लघीयानपि जायेत गुणैर्लोकंपृणैर्गुरुः ॥३८२॥ धृतराष्ट्रमभाषिष्ट भीष्मो मधुरया गिरा । वत्स ! राज्यमिदानीं त्वां ज्यायांसमुपतिष्ठताम् ॥३८३॥ स जगाद न योग्योऽस्मि राज्यस्याहं ध्रुवं ततः । पाण्डुमभ्येति राज्य श्रीदिनश्रीरिव भास्करम् ॥३८४॥ असौ त्रयाणामस्माकं योग्यो राज्यधुरंधरः । उक्तो मुक्ताकलापेऽपि मध्यस्थो नायकः परम् ॥३८५॥ गुणश्रेणिसुधासिन्धुबन्धोरुज्जागरौजसः । अहं तु नित्यमेतस्य दास्यायैव कृतस्पृहः ॥३८६॥ इति निर्बन्धतस्तस्य सुमुहूर्ते महोत्सवात् । राज्याभिषेकमाधत्त पाण्डोर्भीष्मः प्रमोदतः ॥३८७॥ 15 25 १. तर्पणादिकाः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy